________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८२ ॥
।। ८३॥
।। ८४॥
।। ८५ ॥
॥ ८६ ॥
॥ ८७॥
वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः, षट् शाश्वतजिनालया: योजनलक्षप्रमिताज्जम्बूद्वीपात्परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्तारा: बोद्धव्या धातकीखण्डकालोदाद्या असङ्ख्यकाः । स्वयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् प्रत्येकरससम्पूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः सुजातपरमद्रव्यहद्यमद्यसमोदकः । वारुणीवरवाधि: स्यात्, क्षीरोदजलधिः पुनः सम्यक्क्वथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः लवणाब्धिस्तु लवणास्वादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा मेघोदकरसाः किन्तु, कालोदजलधेर्जलम् । कालं गुरुपरिणामं, पुष्करोदजलं पुनः हितं लघुपरिणाम, स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलधेर्जलमीदृशम् त्रिभागावर्तसुचतुर्जातकेचरसोपमम् । शेषासङ्ख्यसमुद्राणां, नीरं निगदितं जिनैः समभूमितलादूर्व, योजने शतसप्तके। गते नवतिसंयुक्ते, ज्योतिषां स्यादधस्तल: तस्योपरि च दशसु, योजनेषु दिवाकरः । तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः
॥ ८८॥
॥ ८९ ॥
|| ९०॥
॥ ९१ ॥
॥ ९२ ।।
॥ ९३॥
૨૬૨
For Private And Personal Use Only