________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७०॥
|| ७१ ॥
॥ ७२ ॥
॥७३॥
॥ ७४ ।।
॥७५ ॥
वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवौ । वेलम्बः प्रभञ्जनश्च, सुघोषमहाघोषको जलकान्तो जलप्रभस्ततः पूर्णो विशिष्ठकः । अमितो मितवाहनः, इन्द्रा ज्ञेया द्वयोदिशोः अस्या एव पृथिव्या उपरितने मुक्तयोजनसहने। योजनशतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु पिशाचाद्यष्टभेदानां व्यन्तराणां तरस्विनाम् । नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः पिशाचा भूता यक्षाश्च, राक्षसाः किन्नरास्तथा । किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समाम्नातौ, यथासङ्ख्यं सुबुद्धिभिः कालस्ततो महाकालः, सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः किन्नरकिम्पुरुषौ सत्पुरुषमहापुरुषनामकौ तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयशाः अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तम् । तन्मध्यादध उपरि च योजनदशकं परित्यज्य मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्या अष्टवल्पधिकाः किञ्चित् अत्र प्रतिनिकायं च, द्वौ द्वाविन्द्रौ महाद्युती । दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगिरिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र
॥ ७६ ॥
।। ७७॥
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
૨૬૧
For Private And Personal Use Only