SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३० ।। ॥३१॥ ॥ ३२ ॥ काय: शोणितशुक्रमीलनभवो गर्भो जरावेष्टितो, मात्रास्वादितखाद्यपेयरसकैर्वृद्धि क्रमात्प्रापितः । क्लिद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाद्यास्पदं, कैर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलैः कश्मलः ? सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनद्राक्षापर्पटिकामृताघृतपूरस्वर्गच्युताम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्तं कायं सकलाशुचिं शुचिमहो मोहान्धिता मन्वते अम्भ:कुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत् कालं लम्भयथोत्तमं परिमलं कस्तूरिकाद्यैस्तथा । विष्ठाकोष्ठकमेतदङ्गकमहो मध्ये तु शौचं कथङ्कारं नेष्यथ सूत्रयिष्यथ कथङ्कारं च तत्सौरभम् ? दिव्यामोदसमृद्धिवासितदिशः श्रीखण्डकस्तूरिकाकर्पूरागुरुकुङ्कुमप्रभृतयो भावा यदाश्लेषतः । दौर्गन्ध्यं ददति क्षणेन मलतां चाबिभ्रते सोऽप्यहो, देह: कैश्चन मन्यते शुचितया वैधेयतां पश्यत इत्यशौचं शरीरस्य, विभाव्य परमार्थतः । सुमतिर्ममतां तत्र, न कुर्वीत कदाचन आस्त्रवभावना मनोवचोवपुर्योगः, कर्म येनाशुभं शुभम् । भविनामात्रवन्त्येते, प्रोक्तास्तेनास्रवा जिनैः मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दु:खितेषु च सततं वासितं स्वान्तं, कस्यचित्पुण्यशालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥३३॥ ॥ ३४॥ ॥ ३५ ॥ ॥ ३६॥ ॥ ३७॥ ૨પ૦ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy