________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।॥ ३८॥
|| ३९ ॥
।। ४०॥
।। ४१॥
॥ ४२ ॥
रौद्रार्तध्यानमिथ्यात्वकषायविषयैर्मनः । आक्रान्तमशुभं कर्म, विदधाति द्वयशीतिधा सर्वज्ञगुरुसिद्धान्तसङ्घसद्गुणवर्णकम् । ऋतं हितं च वचनं, कर्म सञ्चिनुते शुभम् श्रीसङ्घगुरुसर्वज्ञधर्मधार्मिकदूषकम् । उन्मार्गदेशि वचनमशुमं कर्म पुष्यति देवार्चनगुरूपास्ति-साधुविश्रामणादिकम् । वितन्वती सुगुप्ता च, तनुवितनुते शुभम् मांसाशनसुरापानजन्तुधातनचौरिकाः । पारदार्यादि कुर्वाणमशुभं कुरुते वपुः एनामाश्रवभावनामविरतं यो भावयेद् भावतस्तस्यानर्थपरम्परैकजनकाद् दुष्यश्रवौघात् मनः । व्यावृत्त्याखिलदु:खदावजलदे नि:शेषशर्मावलीनिर्माणप्रवणे शुभाश्रवगणे नित्यं रति पुष्यति
संवरभावना आश्रवाणां निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभज्यते अयोगिकेवलिष्वेव, सर्वत: संवरो मतः । देशतः पुनरेकद्विप्रभृत्याश्रवरोधिषु प्रत्येकमपि स द्वेधा, द्रव्यभावविभेदतः । यत्कर्मपुद्गलादानमात्मन्याश्रवतो भवेत् एतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः । भवहेतुक्रियायास्तु, त्यागोऽसौ भावसंवर:
॥४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
।। ४७॥
૨૫૮
For Private And Personal Use Only