________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्थं शिवफलाधायिभववैराग्यवीरुधः । सुधावृष्टिं सुधीः कुर्यादेनां संसारभावनाम्
।। २२॥ एकत्वभावना उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दु:खी। कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥ २३ ॥ यज्जीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाय॑ते, तत्सम्भूय कलत्रमित्रतनयभ्रात्रादिभिर्भुज्यते । तत्तत्कर्मवशाच्च नारकनरस्वर्वासितिर्यग्भवेध्वेकःसैष सुदु:सहानि सहते दु:खान्यसङ्ख्यान्यहो ॥ २४॥ जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद् भ्रश्यति वञ्चयत्यतिहितान् न्यायादपकामति । देहः सोऽपि सहात्मना न पदमप्येकं परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति ? ॥ २५ ॥ स्वाथैकनिष्ठं स्वजनस्वदेहमुख्यं ततः सर्वमवेत्य सम्यग् । सर्वत्र कल्याणनिमित्तमेकं, धर्म सहायं विदधीत धीमान् ॥ २६ ॥ अन्यत्व भावना जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति यद् भिन्नोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिवस्तुव्रजे? । तस्माल्लिम्पति यस्तनुं मलयजैर्यो हन्ति दण्डादिभिर्य:पुष्णाति धनादि यश्च हरते तत्रापि साम्यं श्रयेत् ॥ २७ ॥ अन्यत्वभावनामेवं, य: करोति महामतिः । तस्य सर्वस्वनाशेऽपि, न शोकांशोऽपि जायते
॥ २८ ॥ अशुचित्वभावना लवणाकरे पदार्थाः पतिता लवणं यथा भवन्तीह । काये तथा मला: स्युस्तदसावशुचिः सदा कायः ॥ २९ ॥
૨૫૬
For Private And Personal Use Only