________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मायाादिनिबन्धनैर्बहुविधैः प्राप्तस्तिरश्चां गति, सिंहव्याघ्रमतङ्गजैणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तृष्णावधबन्धताडनरुजावाहादिदुःखं सदा, यज्जीवः सहते न तत्कथयितुं केनाप्यहो शक्यते खाद्याखाद्यविवेकशून्यमनसो निहींकताऽऽलिङ्गिताः, सेव्यासेव्यविधौ समीकृतधियो निःशूकतावल्लभाः । तत्रानार्यनरा निरन्तरमहारम्भादिभिर्दुस्सहं, क्लेशं सङ्कलयन्ति कर्म च महादुःखप्रदं चिन्वते ॥ १७॥ माः क्षत्रियवाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञानदरिद्रताव्यसनितादौर्भाग्यरोगादिभिः । अन्यप्रेषणमानभञ्जनजनावज्ञादिभिश्चानिशं, दुःखं तद्विषहन्ति यत्कथयितुं शक्यं न कल्पैरपि ॥ १८ ॥ रम्भागर्भसमः सुखी शिखिशिखावर्णाभिरुच्चैरय:सूचीभिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थिती, सम्पद्येत तदप्यनन्तगुणितं जन्मक्षणे प्राणिनाम् ॥ १९ ॥ बाल्ये मूत्रपुरीषधूलिलुठनाज्ञानादिभिर्निन्दिता, तारुण्ये विभवार्जनेष्टविरहानिष्टागमादिर्व्यथा । वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्यां जनः ? ॥ २० ॥ सम्यग्दर्शनपालनादिभिरथ प्राप्ते भवे त्रैदशे, जीवाः शोकविषादमत्सरभयस्वल्पर्धिकत्वादिभिः । ईर्ष्याकाममदक्षुधाप्रभृतिभिश्चात्यन्तपीडार्दिताः, क्लेशेन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् ॥ २१ ॥
૨પપ
For Private And Personal Use Only