________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
मलपङ्करजोदिग्धो, ग्रीष्मोष्णक्लेदनादपि । नोद्विजेत् स्नानमिच्छेद्वा, सहेतोद्वर्तयेन वा उत्थानं पूजनं दानं, स्पृहयेन्नात्मपूजकः । मूर्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च अजानन् वस्तु जिज्ञासुन मुह्येत् कर्मदोषवित् । ज्ञानिनां ज्ञानमुद्वीक्ष्य, तथैवेत्यन्यथा न तु विरतस्तपसोपेतश्छद्मस्थोऽहं तथाऽपि च । धर्मादि साक्षान्नैवेक्षे, नैवं स्यात् क्रमकालवित् जिनास्तदुक्तं जीवो वा, धर्माधर्मों भवान्तरम् । परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो ग्रहात् शारीरमानसानेवं, स्वपप्रेरितान्मुनिः । परीषहान् सहेताभी:, कायवाङ्मनसा सदा ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः क्षुत्पिपासा च शीतोष्णे, तथा दंशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ चतुर्दशैते विज्ञेयाः, सम्भवेन परीषहाः । ससूक्ष्मसम्परायस्य, च्छद्मस्थारागिणोऽपि च क्षुत् पिपासा च शीतोष्णे, दंशश्चर्या वधो मलः । शय्या रोगतृणस्पर्शी, जिने वेद्यस्य सम्भवाद्
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७॥
॥ २८ ॥
૨૪૦
For Private And Personal Use Only