________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ॥
॥ १२॥
॥ १३ ॥
शमभटशिरश्छेत्तुं सज्जीकृतेऽत्र कुवेधसा सुजड! किममू रज्जूक्षिप्ते न विन्दसि चक्रके
नासिकावर्णनम् (पृथ्वी) इदं तिलमणीवकं सुजन ! नासिकासम्पुटं विभाव्य हरिणीदृशामिति मतौ मुधा धावसि । अहेर्वदनमुत्फणं सविषफूत्कृताहंकृतं विचारय तदुद्यतं चरणजीवितं हिसितुम् इहास्यत शुकाननं स्मरमहेषुधिर्वेति कि वितर्कयसि वीक्ष्य रे जड ! मृगीदृशो नासिकाम् । न विन्दसि मलाविला नरककुम्भिकामेतकां निपीतमदिरोऽथवा श्रयति चेतना कहिचित्
____ कपोलवर्णनम् (मालिनी) सुतनु ! तव सितांशोर्बिम्बमाभिद्य मध्याद् दलयुगलनिवेशात् कल्पितौ किं कपोलौ ? । इति दधति धियं ये ते न जानन्ति सम्यग् निजसुकृतशरीरं भिन्नमाभ्यामविज्ञाः स्मरमयमवगन्तुं कामिनः सुभ्र ! चेतो न्यधित विधिरयं ते दर्पणौ गल्लदम्भात् । अमृतमिव पिबन्तो नेति संविन्दते द्राग् नरककुहरकुण्डे स्वं हि सङ्क्रान्तमज्ञाः
ओष्ठवर्णनम् (वसन्ततिलका) रे मुग्ध ! मुग्धवनिताऽधरसीधुपानाद् मा माद्य मेदुरतरां मुदमादधानः । काऽस्माद्गताधरगतेर्भविता गतिस्ते तप्तत्रपुर्धयनविह्वलिताङ्गयष्टेः
॥ १४ ॥
૨૦૨
For Private And Personal Use Only