________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५९॥
॥६०॥
॥६१॥
॥६२॥
॥६३॥
॥६४॥
मुखरत्वेनाभिज्ञः सम्पल्लाभे भवेत् सदा विकृतः । गणकोक्तौ सुतकामी न धीमतां माननीयः स्यात् बुधसदसि स्वश्लाघी क्लिष्टोक्त्या मन्यते कविमन्यः । व्याचष्टे श्रुतमश्रुतं तन्मतये खलु नमस्कुर्मः । परगतमर्मस्पर्शी हसन्निवोद्वेजकोऽतिचाटूक्त्या । अगुणी गुणिनिन्दाकृत् ककचप्रतिमः परः स पुमान् दक्षः स्वसभाधीती महातुर: साभिलाषुकोऽत्यन्तम् । अनवसरज्ञोऽपि गतः कपिकच्छुसमा इमे ख्याताः वचनास्मारकदूतः खरस्वरो गीतगानकारी च । योगी गृहाश्रमरतः सोद्वेगकरास्त्रयश्चैते स्फुटदोषिजनश्लाघी गुणिजनगुणनिन्दकोऽसमर्थः सन् । राजाद्यवर्णवादी सद्योऽनर्थस्य भवति गृहम् निजधर्मणोऽपमानं वित्तार्युर्मर्मवञ्चनं मन्त्रम् । गृहदुश्चरितं च तथा प्रकाशयेज्जातु नो मतिमान् मूर्खः पण्डितमान्यो मूर्खमन्योऽपि पण्डितो मान्यः । पण्डितमूर्खान्तरतः स पण्डितः पण्डितंमन्यः विच्छिनश्रुतवचनः खण्डस्फुटिताक्षरोक्तिवाचालः । खण्डितपण्डितमान्यो न खण्डितः पण्डितंमन्यः व्याकरणतर्कछन्दोज्योतिर्वैद्य श्रुतिस्मृतिपुराणैः । षड्दर्शनमर्मज्ञः सार्वपथीनो भवेत् कुशलः तद्विपरीतो मूर्यो गणयति बुधमान्यमात्मनाऽऽत्मानम् । शठधूर्तादिस्तुतिभिः स च मूर्खशिरोमणिः प्रवरः तीव्रक्रोधाहकृतिमायालोभादयो हि सन्ति निजे। पात्रमपकीतिगुणिनां ततः परः प्राप्यते कुत्र
॥६५॥
॥६६॥
॥६७ ॥
||६८॥
॥ ६९॥
॥ ७० ॥
૧૬
For Private And Personal Use Only