________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हितवादिषु स द्वेषी रोगी यदपथ्यसेवको भवति । नीरुग्भेषजभक्षी निःसंशयतो मुमूर्षुमतिः भोजनकाले कुपितो गन्ताऽमार्गेऽपि शुक्लकुलजातः । कुलमदतोऽसेवाकृत् त्रयो महामन्दमतिमुख्याः मित्रोद्वेगकरो यो धूतैर्विश्वास्य वञ्च्यते सततम् । गुणवान् मत्सरसहितः सकला विकलाः कलास्तस्य रमणीरमणीयतरो ऽन्यदारसक्तोऽप्रियोऽपि सिद्धार्थे । गोष्ठीनिरतो निधनो निर्बुद्धि शिरोमणिः पुरुषः धातुवादादिकृते विहितधनाशो रसायने रसिकः । विषभुक् परीक्षणार्थं त्रिकमेतदनर्थकोशगृहम् गुह्येोक्ता परवश्यः कुकर्मणो भृत्यभीतिकर्ता यः । निजकोपसमापाती दुर्यशसामपि पदममी स्युः दोषेष्वधिको रसिकः क्षणानुरागी च गुणगणाभ्यासे । बहुहानिरल्परक्षी नास्पदमपि सम्पदां भवति प्रणतेष्वनतो मौनी दुर्बलपीडितनरेषु सोत्साहः । बहुगर्वेण स्तब्धो न भवेज्जनवल्लभः क्वचन दीनवदनोऽतिदुःखे सुखसम्पत्तौ न दुर्गतेर्भयकृत् । दुष्कर्मणि निर्लज्जो बालैरुपहस्यते स भृशम् धूर्तस्तुत्या भ्रमितस्त्वात्मनि यशसैव पात्रपोषकरः । आत्महितेष्वविमर्शी क्षयमेव स शीघ्रमुपयाति वाचाल : कुशलोऽहं चपलः सहितोद्यमोऽस्मि सोऽहमिति । निःशङ्कः शूरोऽहं स मन्यते यस्तु मूढात्मा धर्मद्रोहसुखेच्छुरन्यायेन च विवर्धिषुर्नितराम् श्रेयः संबलमुक्तो मरणान्ते दुर्गतेरतिथिः
૧૯૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ४७ ॥
।। ४८ ।।
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
।। ५४ ।।
॥ ५५ ॥
॥ ५६ ॥
114011
॥ ५८ ॥