________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ८१ ॥
।। ८२ ।।
।। ८३ ॥
॥८४॥
॥ ८५ ॥
॥८६॥
न चिन्तयेत् परद्रोह-मात्मश्रेयोऽर्थिकः पुमान् । वध्वाः पपात यद्बोहः स्थविरायै विनिर्मित: वरं न परनिन्दाया: पापं तां कुर्वत: सतः । अकृतान्यन्यपापान्यागच्छन्ति जरतीमिव कपटी निष्कृप: प्राणी पीडयञ्श्रमणानपि । न लज्जते यथा श्राद्धो लघुक्षुल्लकविक्री अर्थलुब्धः पूर्णकार्यो विश्वस्तं प्राणिनं कुधीः । विभागिनं निहन्त्येव चाणक्य इव पर्वतम् वादिनो गर्वभाजोऽपि हितकर्यायतौ मतिः । सम्पूर्णपण्डितस्य स्यात् सिद्धसेनगणेरिव गणयंस्तृणवत् स्वर्ण-वर्णकायं निजव्रतम् । न त्यजेदुपसर्गेऽपि सति सागरचन्द्रवत् अकार्येऽपि स्वभर्तारं कलेर्मूलं मृगेक्षणा । प्रेरयेदिव हारादि-कृते कूणिनृपं प्रिया जानन्नपि त्यजेन्नैव दुरन्तां भोगलालसाम् । सार्वभौमब्रह्मदत्त इव पाश्चात्यजन्मनि गच्छतां शिवसदः शरीरिणा-मन्तरायकरणो भवेत्स्मयः । येन बाहुबलिवन्महात्मनां धर्मिणां सुजन ! तं ततस्त्यज उल्लङ्घयन् गुरोराज्ञां पश्चात्तापं समाचरेत् । उपकोश्यागृहप्राप्त-क्षमाश्रमणवद् दृढम् समयोपस्थितं धर्ममकुर्वन् विषयस्पृहः । दुःखी स्यान्मृतमातङ्गाऽऽमिषार्थिद्विकवज्जड: नरत्वं दुर्लभं लब्ध्वा धर्माऽऽराधनकारणम् । प्राणी न गमयेद् व्यर्थं स्वरत्नं पुण्यसारवत्
।। ८७॥
॥ ८८ ॥
॥ ८९ ॥
॥ ९० ।
॥ ९१ ॥
।। ९२॥
૧૮૦
For Private And Personal Use Only