________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥७३॥
वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कृतिः, पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैजिने पूजिते । दीपैर्जानमनावृतं निरुपमा भोगाश्च रत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ? जिनस्य पूजनं हन्ति, प्रात: पापं निशाभवम् । आजन्मविहितं मध्ये, सप्तजन्मकृतं निशि स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि । संसारः सुतर: शिवं करतलकोडे लुठत्यञ्जसा, यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः जिनपूजनं जनानां, जनयत्येकमपि सम्पदो विपुलाः । जलमिव जलदविमुक्तं, काले शस्यश्रियो, ह्यखिलाः यद्भक्तिः सर्वज्ञे यद्यत्नस्तत्प्रणीतसिद्धान्ते । यद्वन्दना यतीनां फलमेतज्जीवितव्यस्य एकैव हि जिनपूजा दुर्गतिगमनं नृणां निवारयति । प्रापयति श्रियमखिलामामुक्तेर्भक्तितो विहिता फलं पूजाविधातुः स्यात्सौभाग्यं जनमान्यता । ऐश्वर्य रूपमारोग्यं, स्वर्गमोक्षसुखान्यपि यः पुष्पैजिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते, यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते, यस्तं ध्यायति क्लुप्तकर्मनिधनः स ध्यायते योगिभिः नौरेषा भववारिधौ शिवपदप्रासादनि: श्रेणिका । मार्गः स्वर्गपुरस्य दुर्गतिपुरद्धारप्रवेशार्गला
॥ ७४ ।।
।। ७५ ॥
॥ ७६॥
॥७७ ।।
१७3
For Private And Personal Use Only