________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७८
॥
॥ ८०॥
कर्मग्रन्थिशिलोच्चयस्य दलने दम्भोलिधारासमा। कल्याणैकनिकेतनं निगदिता पूजा जिनानां परा नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी व्यापल्लताधूमरी । हर्षोत्कर्षशुभप्रभावलहरी भावद्विषां जित्वरी, पूजा श्रीजिनपुङ्गवस्य विहिता श्रेयस्करी देहिनाम् दर्शनाद् दुरितध्वंसी वन्दनाद्वाञ्छितप्रदः । पूजनात् पूरकः श्रीणां, जिनः साक्षात्सुद्धमः पापं लुम्पति दुर्गति दलयति व्यापादयत्यापदं, पुण्यं सञ्चिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । वैराग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः, स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता ॥ ८१॥ यान्ति दुष्टदुरितानि दूरतः कुर्वते सपदि सम्पदः पदम्। भूषयन्ति भुवनानि कीर्तयः, पूजया विहितया जगद्गुरोः ॥ ८२ ॥ श्रीमज्जिनेन्द्रपदपङ्कजपूजनेन, ज्ञानकियाकलितसद्गुरुसेवनेन । स्वाध्यायसंयमतपोविनयादिना च, कस्यापि पुण्यपुरुषस्य दिनानि यान्ति
।। ८३ ॥ वरपूजया जिनानां, धर्मश्रवणेन सुगुरुसेवनया। शासनभासनयोगैः सृजन्ति सफलं निजं जन्म
॥ ८४ ॥ जिनबिम्बार्चनं सेवा, गुरूणां प्राणिनां दया। शमो दानं तपः शीलमेष धर्मो जिनोदितः
॥ ८५ ॥ जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि
॥८६॥
૧૦૪
For Private And Personal Use Only