________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०॥
॥४४॥
ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति। शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते देवमर्त्यशिवशर्म नरा लभन्ते लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान् । ते सर्ववाङ्मयं ज्ञात्वा, सिद्धि यान्ति न संशयः ।। ४१॥ नाणं नियमग्गहणं नवकारो नयरुई अनिट्ठा य । पञ्चनयविभूसिआणं न दुल्लहा सुगई लोए
।। ४२ ॥ रत्लेषु चिन्तामणिरत्र यद्वत्सारस्तरूणामिव कल्पवृक्षः । देवेषु सर्वेस्वपि वीतरागस्तद्वत्सुपात्रेषु सुसाधुसङ्यः ॥४३ ।। पुत्रजन्मविवाहादिमङ्गलानि गृहे गृहे । परं भाग्यवतां पुंसां श्रीसङ्घार्चादिमङ्गलम् अर्हतामपि मान्योऽयं, पूज्य: पुण्यवतामपि । सेव्यः सुरासुरेशानां, सङ्घः पूज्यस्ततो बुधैः
॥ ४५ ॥ यः संसार निरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूतिर्यस्य परा वसन्ति च गुणा यस्मिन् स सङ्घोऽर्च्यताम् ॥ ४६ ।। रत्नानामिव रोहण: क्षितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । पाथोधिः पयसां शशीव महसां स्थाने गुणानामसावित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधि: कल्पोर्वीरुहसंततिस्तदजिरे चिन्तामणिस्तत्करे श्लाघ्या कामदुघानघा च सुरभी तस्यावतीर्णा गृहे ।
|| ४७॥
१७०
For Private And Personal Use Only