SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वाकारमनोहरं सुतनु ! ते कोपेऽपि पश्यन् मुखं, दूयेनाऽस्मि यतस्ततोऽयमधुना मानानुबन्धेन ते ॥८५॥ कान्ते ! कान्ते कदाऽहं शिरसि न कृतवान्माल्यमालामिवाज्ञां, क्षुण्णं चेत् क्षाम्य तावन्न पुनरपि विधास्यामि पादानतोऽस्मि । प्रेङ्गुत्केतूद्यदिन्दुद्युतिभयदमिदं मे विलोलालकाग्रं, चण्डि ! त्वं पाण्डु गण्डस्थलमलमरुणं किं मुधैवाऽऽदधासि ॥८६ ॥ कान्ते ! लोचनगोचरेऽपि सपदि प्रोद्दामरोमोद्गमनुद्यत्कञ्चुकसन्धिसूचितरुचिः कम्पाकुलोरस्तनि । सद्यः सान्द्रतरद्रवद्रतिजलैरार्द्र नितम्बाम्बरं, गोपायन्त्यपि किं न दैवहतिके ! मानग्रहं मुञ्चसि ॥८७ ॥ तन्वि! तन्विदमनाकुलं मनः, किं करोषि क इव श्रमो मयि । चण्डि ! वध्यकरवीरमालिका-दारुणे रचयमारुणे दृशौ ॥ ८८ ॥ कोपत्र्यलपरान्मुखाङ्गकृतकस्वप्नां प्रियां पृष्ठतस्तिष्ठनुत्कटकण्टकाङ्कुरकणाकीर्णां करेण स्पृशन् । कोऽपि स्वेदजलच्छलद्रुतगलन्मानां विद न्याट्वात्(?), धूर्तः प्रक्रमते हठाच्चटुपटुः स्पष्टं परावृन्तकम् ॥ ८९ ॥ दृष्टेऽभीष्टजने ततो हदि धृते जाते मिताभाषणे, विस्रम्भे च मनोगते करचितोपायप्रवृत्ते चिरात् । रागे पुष्यति शुष्यदङ्गमपि सद्धत्ते रति तां मिथः, सङ्कल्पाहितसङ्गमङ्गमिथुनं नो यत्र वाचां गति: ॥ ९०॥ ऋतुं सफलयाऽधुना हठकचग्रहाकर्षणात्, कपोलतलदोलिनीः कुटिलकुन्तलालीलताः । उदस्य सहसैव चेदमृतयत्वमीप्सुस्तदा, सुधामधुरिमाऽधरं भ्रमर ! चुम्ब बिम्बाधरम् ૧૦૨ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy