________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चेतः कान्तैकतानं वपुरतिमधुरं भूलतोल्लासिलास्याः, तस्या बाल्येऽतियाति स्मरगुरुरचितः कोऽपि कान्तःक्रमोऽयम् ॥ १९ ।। लीलाविलोलनयनोत्पलमङ्गभङ्गसंसङ्गसुन्दरमनङ्गतरङ्गिताङ्गम् । मद् वीक्षणे क्षणमभूद् बत चञ्चदुच्चरोमाञ्चकञ्चकचितं स्थितमानताङ्याः
|| २० || अमन्दानन्दं तद्वदनमनिशं वेद्मि मनसा, दृशा पश्याम्याशा दश विशदयत्तद्वपुरहम् । सदा तन्निर्वृत्तं जगदखिलमीक्षे च यदतो, वियोगः संयोगाद् वरमिव हि मन्ये मृगदृशः
॥ २१ ॥ सखि ! गतिरियं कि ते जाता श्रमादिव मन्थरा, मधुमदवती चेयं किं वा स्मिता मुकुला च दृक् । भयमयमिव स्वेदस्तम्भि प्रकम्पि च किं वपुनयनमधुराऽकस्मात् कस्माद्दशाऽभवदीदृशी
॥ २२ ॥ निश्वासा करकेलिपङ्कजदलोल्लासा यदेते चला, यच्चैष स्फुरति प्रकम्पितजपापुष्पप्रकाशोऽधरः । यच्च स्वेदि ललाटमङ्गमलसं विभ्रान्तमक्षिध्रुवं, तन्नूनं सखि ! ते स्मरग्रहमहापस्मारजं वैकृतम्
॥ २३॥ शल्यत्यद्यापि तन्मे मनसि गुरुपुरो यत्तदा पक्ष्मलाक्ष्या, मां लक्षीकृत्य मुक्तो झगिति निबिडितव्रीडमाकेकराक्ष्या । चञ्चत्पञ्चेषुनाराचरुचिरभिवलद् ग्रीवया पक्ष्मलेखापुनः कर्णावतंसाम्बुरुहमिलदलिश्रेणिकान्तः कटाक्षः कान्तिभ्रमोन्नमितवेल्लितबाहुवल्लिसंदर्शितोन्नतघनस्तनबाहुमूला।
॥ २४ ॥
૯૧
For Private And Personal Use Only