________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन्मां मदालसमुदैवत साङ्गभङ्गमङ्गारवद्दहति तद्भृशमम्बुजाक्षी
॥ २५ ॥ दृश्योल्लासिशशप्लुतोद्गतपदं सोल्लेखरेखस्फुटोद्भाव्यव्याघ्रनखाङ्कमङ्कविकसल्लावण्यवारां पदम् । तन्निर्व्यक्तवराहचचितदलत्पत्राङ्कुरं सोष्म ते, पुष्णात्येव घनस्तनस्थलमिदं तृष्णां न मुष्णाति नः || २६॥ हे सौभाग्यनिकेत ! कोपकणिकाकूतेन बालाऽचलत्वां धूत्वापि यदैव दैवहतिका मुक्ता त्वयेव क्रुधा । तत्कालावधि सा मनस्तृणकुटीलग्नस्मराग्निनिशां, बाष्पव्याकुलकण्ठनालमनयत् कृत्स्नां रुदत्यैव ताम् ॥२७॥ दासस्तेऽस्मि परिश्रुताश्रुसलिलं सुश्रोणि ! कि रुद्यते, गोत्राग:कृतिजल्पतीति दयिते बाला विहस्यावदत् । नाहं रोदिमि मन्मुखेक्षणरुचे यन्नामगृहास्यदः, सैवं मेऽक्षिगता प्रिया तव शठ ! त्वदर्शनात् खिद्यति ॥२८ ।। मनसि निहितं ध्यानैकाग्र्यं हताः सकला: क्रिया:, वचसि कृतमक्षुण्णं मौनं तनुस्तनुतां गता। अपि कुचतटी मालामुक्ता वराक्षिनिरञ्जनं, तदपि समभून्नास्या योगो वियोगविधिः परम्
।। २९॥ सद्य:स्वेदपय:प्लवप्लुतवपुः सम्पृक्तकूर्पासका, तत्कालप्रबलोच्छलद्रतिबलैस्तिम्यनितम्बाम्बरा । दुर्दृष्टे त्वमदृष्ट एव हि वरं येनेयमस्मत्सखी, प्राप्ताऽऽकस्मिकसाध्वसाऽऽकुलतनु१:स्थामवस्थामिमाम् ॥ ३० ॥ उद्भूतविभ्रम[मनोज्ञ] विजृम्भिकाऽपि, लीलानिमीलनयनाप्यविदूरतोऽपि ।
૯૨
For Private And Personal Use Only