________________
-54 : १-५४]
१. धर्मोपदेशामृतम् ___52) हिंसा प्राणिषु कल्मषं भवति सा प्रारम्भतः सोऽर्थतः
तस्मादेव भयादयो ऽपि नितरां दीर्घा ततः संसृतिः। तत्रासातमशेषमर्थत इदं मत्वेति यस्त्यक्तवान्
मुक्त्यर्थी पुनरर्थमाश्रितवता तेनाहतः सत्पथः ॥५२॥ 53) दुानार्थमवद्यकारणमहो निर्ग्रन्थताहानये
शय्याहेतु तृणाद्यपि प्रशमिना लज्जाकरं स्वीकृतम् । यत्ततिक न गृहस्थयोग्यमपरं स्वर्णादिकं सांप्रतं
निम्रन्थेष्वपि चेत्तदस्ति-नितरां प्रायः प्रविष्टः कलिः ॥ ५३॥ 54) कादाचित्को बन्धः क्रोधादेः कर्मणः सदा संगात् ।
नातः कापि कदाचित्परिग्रहग्रहवतां सिद्धिः॥५४॥
निग्रहात् । खान्तं मनः । न चिकित्सति निर्मलं न करोति । स मुनिः। मायया कृत्वा । संमृति संसारं । जुगुप्सते निन्द्यति । स मुनिः प्राप्तपरीषहानपि क्षुत्पिपासादिपरीषहान् । मायया तितिक्षते सहते । तदा अघप्रशान्तये कथं भवति ॥५१॥ यत्र प्राणिषु हिंसा वर्तते तत्र कल्मषं पापं भवति । सा हिंसा प्रारम्भतो भवति । स आरम्भः अर्थतः द्रव्यतः भवति । तस्माद्रव्यात नितरामतिशयेन भयादयोऽपि भवन्ति । ततः भयात् । दीर्घा संसृतिः दीघसंसारः भवति । तत्र संसारे। अशेष परिपूर्णम् । असात दुःखं भवति । मुक्त्यर्थी मुक्तिवाञ्छेकः मुनिः इति इदं पूर्वोक्तं पापम् । अर्थतः द्रव्यतः । मत्वा ज्ञात्वा । द्रव्यं त्यक्तवान् । पुनः तेन अर्थमाश्रितवता द्रव्यं आश्रितवता मुनिना। सत्पथः आहतः ॥ ५२ ॥ अहो इति खेदे। यद्यस्मात्कारणात् । प्रशमिनां मुनीनाम् । शय्याहेतुः तृणाद्यपि खीकृतमङ्गीकृतं दुर्ध्यानार्थं भवति । पुनः अवद्यकारणं भवति । पुनः निर्ग्रन्थताहानये भवति । पुनः तृणादि अङ्गीकृत लज्जाकर भवति । तत्तस्मात्कारणात् । अपरं गृहस्थयोग्य वर्णादिकं किं न। अपि तु गृहपदं स्वर्णादियोग्यं वर्तते । चेद्यदि तद् द्रव्यम् । निर्ग्रन्थेषु मुनिषु सांप्रतम् । अस्ति वर्तते । तदा नितरामतिशयेन । प्रायः बाहुल्येन । कलिः प्रविष्टः ॥ ५३ ॥ क्रोधादेः सकाशात् । कोऽपि बन्धः । कदाचिद्भवति। संगात्परिग्रहात् । सदा सर्वदा बन्धः भवति। अतः कारणात् । कापि कस्सिन्स्थाने । कदाचित् कस्मिन्समये । परिग्रहग्रहवता परिग्रह एव प्रहः राक्षसः वर्तते येषां ते परिग्रहग्रहवन्तः तेषां परिग्रह
समझना चाहिये कि वह जो संसारसे घृणा करता है तथा परीषहोंको भी सहता है वह केवल मायाचारसे ही ऐसा करता है, न कि अन्तरंग प्रेरणासे ॥ ५१ ॥ प्राणियोंकी हिंसा पापको उत्पन्न करती है, वह हिंसा प्रकृष्ट आरम्भसे होती है, वह आरम्भ धनके निमित्तसे होता है, उस धनसे ही भय आदिक उत्पन्न होते है, तथा उक्त भय आदिसे संसार अतिशय लंबा होता है । इस प्रकार इस समस्त दुखका कारण धन ही है, ऐसा समझकर जिस मोक्षाभिलाषी मुनिने धनका परित्याग कर दिया है वह यदि फिरसे उक्त धनका सहारा लेता है तो समझना चाहिये कि उसने मोक्षमार्गको नष्ट कर दिया है ।। ५२ ॥ जब कि शय्याके निमित्त स्वीकार किये गये लज्जाजनक तृण (प्याल) आदि भी मुनियोंके लिये आर्त-रौद्रस्वरूप दुर्ध्यान एवं पापके कारण होकर उनकी निम्रन्थता ( निष्परिग्रहता ) को नष्ट करते हैं तब फिर गृहस्थके योग्य अन्य सुवर्ण आदि क्या उस निर्ग्रन्थताके घातक न होंगे? अवश्य होंगे। फिर यदि वर्तमानमें निम्रन्थ कहे जानेवाले मुनियोंके भी उपर्युक्त गृहस्थयोग्य सुवर्ण आदि परिग्रह रहता है तो समझना चाहिये प्रायः कलिकालका प्रवेश हो चुका है ।। ५३ ॥ क्रोधादि कषायोंके निमित्तसे जो बन्ध होता है वह कादाचित्क होता है, अर्थात् कभी होता है और कभी नहीं भी होता है । किन्तु परिग्रहके निमित्तसे जो बन्ध होता है वह सदा काल होता है । इसलिये जो साधुजन परिग्रहरूपी ग्रहसे पीड़ित हैं उनको कहींपर और कभी १ म श संसार जुगुप्सते संसार निन्थति। २ क मुक्तिवान्छिकः। ३ व वियते ।
पद्मन:४