________________
manwwwwwwwww
। ॐ नमः सिद्धेभ्यः। पद्मनन्दि-पञ्चविंशतिः
[१. धर्मोपदेशामृतम्] 1) कायोत्सर्गायताङ्गो जयति जिनपति भिसूनुर्महात्मा
मध्याह्ने यस्य भास्वानुपरि परिगतो राजति स्मोग्रमूर्तिः। चक्रं कर्मेन्धनानामतिबहु दहतो दूरमौदास्यवातस्फूर्जत्सद्ध्यानवह्नरिव रुचिरतरः प्रोद्तो विस्फुलिङ्गः ॥१॥ 2) नो किंचित्करकार्यमस्ति गमनप्राप्यं न किंचिद् दृशो
दृश्यं यस्य न कर्णयोः किमपि हि श्रोतव्यमप्यस्ति नै । तेनालम्बितपाणिज्झितगतिनासाग्रदृष्टी रहा संप्राप्तोऽतिनिराकुलो विजयते ध्यानकतानो जिनः ॥२॥
[संस्कृत टीका] स जिनपतिः' जयति । कथंभूतो जिनपतिः। नाभिसूनुः नाभिपुत्रः । पुनः कथंभूतः । महात्मा महाश्चासौ आत्मा महात्मा । पुनः किंलक्षणः । कायोत्सर्गायताङ्गः कायोत्सर्गेण आयतं प्रसारितम् अङ्गं यस्य सः। मध्याह्ने मध्याह्नकाले । यस्य जिनपतेः उपरि । परिगतः प्राप्तः । भावान् सूर्यः । राजति स शुशुभे । कथंभूतो भावान् । उग्रमूर्तिः। तत्रोत्प्रेक्षते-सूर्यः क इव । औदास्यवातस्फूर्जत्सद्ध्यानवतेः विस्फुलिङ्ग इवं । उदासस्य भावः औदास्यम् उदासीनता सैव वातः तेन औदास्यवातेन स्फूर्जत" विस्फुरितः सद्ध्यानमेव वहिः तस्य सद्ध्यानवलेः विस्फुलिङ्गः । प्रोद्गतः उत्पन्नः । कथंभूतो विस्फुलिङ्गः । रुचिरतरः दीप्तिमान् । क्यंभूतस्य वढेः । कर्माण्येवेन्धनानि कर्मेन्धनानि तेषां कर्मेन्धनानाम् । चक्र समूहम् । अतिवहु बहुतरम् । दूरम् अतिशयेन । दहतः भस्मीकर्वतः इत्यर्थः ॥१॥जिनः विजयते कर्मारातीन् कर्मशत्रून् जयति इति जिनः विजयते। यस्य जिनस्य । किंचित्करकार्य नोऽस्ति करौभ्या कार्य करकार्य नोऽस्ति । तेन हेतुना । स जिनः आलम्बितपाणिः आलम्बितौ पाणी यस्य स आलम्बितपाणिः । यस्य जिनस्य किंचिद्गमनप्राप्यं न गमनेन किंचिल्लभ्यं न। तेन हेतुना । उज्झितगतिः उज्झिता गतिर्येन स उज्झितगतिः ।
[हिन्दी अनुवाद] कायोत्सर्गके निमित्तसे जिनका शरीर लम्बायमान हो रहा है ऐसे वे नाभिरायके पुत्र महात्मा आदिनाथ जिनेन्द्र जयवन्त होवें, जिनके ऊपर प्राप्त हुआ मध्याह्न ( दोपहर ) का तेजस्वी सूर्य ऐसा सुशोभित होता है मानो कर्मरूप इन्धनोंके समूहको अतिशय जलानेवाली एवं उदासीनतारूप वायुके निमित्तसे प्रगट हुई समीचीन ध्यानरूपी अमिकी दैदीप्यमान चिनगारी ही उत्पन्न हुई हो । विशेषार्थ - भगवान् आदिनाथ जिनेन्द्रकी ध्यानावस्थामें उनके ऊपर जो मध्याह्न कालका तेजस्वी सूर्य आता था उसके विषयमें ग्रन्थकार उत्प्रेक्षा करते हैं कि वह सूर्य क्या था मानो समताभावसे आठ कर्मरूपी इन्धनको जलानेके इच्छुक होकर भगवान् आदिनाथ जिनेन्द्रके द्वारा किये जानेवाले ध्यानरूपी अमिका विस्फुलिंग ही उत्पन्न हुआ है ॥१॥ हाथोंसे करने योग्य कोई भी कार्य शेष न रहनेसे जिन्होंने अपने दोनों हाथोंको नीचे लटका रक्खा था, गमनसे प्राप्त करनेके योग्य कुछ भी कार्य न रहनेसे जो गमनसे रहित हो चुके थे, नेत्रोंके देखने योग्य कोई भी वस्तु न रहनेसे जो अपनी दृष्टिको नासाके अग्रभाग पर रखा करते थे, तथा कानोंके सुनने योग्य कुछ भी शेष न रहनेसे जो आकुलतासे रहित होकर एकान्त स्थानको प्राप्त हुए थे; ऐसे वे ध्यानमें एकाग्र
भश राजते । २ अश स्फूर्यत् । ३ म श च । ४ अ श स जिनः। ५श जिनः । ६श कथम्भूतः। ७ श मध्याहे वासरमध्यकाले। ८श राजते। ९श स्फूर्यत् । १०श 'इव' नास्ति । ११ श स्फूर्यत् । १२ अ दीप्तिवान् श दीप्तवान् । १३ श कराभ्यां कार्य करकार्य नोऽस्ति' इत्ययं पाठो नास्ति।