________________
[ २२. एकत्वभावनादशकम् ]
884 ) स्वानुभूत्यैव यद्गम्यं रम्यं यच्चात्मवेदिनाम् । जल्पे तत्परमं ज्योतिरंवागनसगोचरंम् ॥ १ ॥ 885) एकत्वैकपदप्राप्तमात्मतत्त्वमवैति यः ।
आराध्यते स एवान्यैस्तस्याराध्यो न विद्यते ॥ २ ॥ 886 ) एकत्वज्ञो बहुभ्यो ऽपि कर्मभ्यो न बिभेति सः । योगी सुनौगतो ऽम्भोधिजलेभ्य इव धीरधीः ॥ ३ ॥ 887 ) चैतन्यैकत्वसंवित्तिर्दुर्लभा सैव मोक्षदा ।
लब्धा कथं कथंचिश्चेश्चिन्तनीया मुहुर्मुहुः ॥ ४ ॥ 888 ) मोक्ष एव सुखं साक्षात्तच्च साध्यं मुमुक्षुभिः । संसारे ऽत्र तु तन्नास्ति यदस्ति खलु तन्न तत् ॥ ५ ॥
तत्परमं ज्योतिः अहं जल्पे । किंलक्षणं परमज्योतिः । अवाड्यानसगोचरं मनोवचनकायैः अगम्यम् । यत् परमं ज्योतिः स्वानुनया एव गम्यम्। च पुनः । यज्योतिः आत्मवेदिनां रम्यं मनोज्ञम् ॥ १ ॥ यः एकत्वैकपदप्राप्तम् एकस्वरूपपदं प्राप्तम् आत्मतत्त्वम् । अवैति जानाति । स ज्ञानवान् एव अन्यैः आराध्यते । तस्य ज्ञानवतः आराध्यः न विद्यते ॥ २ ॥ स एकत्वज्ञः योगी बहुभ्योऽपि कर्मभ्यः न बिभेति भयं न करोति । सुनौगतः सुष्ठु - शोभनैनौकायां गतः पुमान् । धीरधीः । अम्भोधिजलेभ्यः सकाशात् भयं न करोति ॥ ३ ॥ चैतन्ये एकत्वसंवित्तिः दुर्लभा । सा एव एकत्वभावना मोक्षदा । चेत्कथं कथंचिल्लब्धा मुहुः मुहुः वारं वारं चिन्तनीया ॥ ४ ॥ साक्षात्सुखं मोक्षे वर्तते । च पुनः । तत्सुखं मुनीश्वरैः साध्यम् । तु पुनः । अत्र संसारे । त् मोक्षसुखं न अस्ति । यत् सुखं संसारे अस्ति । खलु निश्चितम् । तत्सुखं तत् मोक्षसुखं न ॥ ५ ॥ संसारसंबन्धि वस्तु किंचित् ।
जो परम ज्योति केवल स्वानुभवसे ही गम्य ( प्राप्त करने योग्य ) तथा आत्मज्ञानियोंके लिये रमणीय है। उस वचन एवं मनके अविषयभूत परम ( उत्कृष्ट ) ज्योतिके विषयमें मैं कुछ कहता हूं ॥ १ ॥ जो भव्य जीव एकत्व ( अद्वैत ) रूप अद्वितीय पदको प्राप्त हुए आत्मतत्त्वको जानता है वह स्वयं ही दूसरोंके द्वारा आराधा जाता है अर्थात् दूसरे प्राणी उसकी ही आराधना करते हैं, उसका आराध्य ( पूजनीय ) दूसरा कोई नहीं रहता है || २ || जिस प्रकार उत्कृष्ट नावको प्राप्त हुआ धीरबुद्धि ( साहसी ) मनुष्य समुद्रके अपरिमित जलसे नहीं डरता है उसी प्रकार एकत्वका जानकार वह योगी बहुत-से भी कार्मेंसे नहीं डरता है ||३|| चैतन्यरूप एकत्वका ज्ञान दुर्लभ है, परन्तु मोक्षको देनेवाला वही है । यदि वह जिस किसी प्रकार से प्राप्त हो जाता है तो उसका वार वार चिन्तन करना चाहिये || ४ || वास्तविक सुख मोक्षमें है और वह मुमुक्षु जनों के द्वारा सिद्ध करनेके योग्य है । यहां संसार में वह सुख नहीं है । यहां जो सुख है वह निश्चयसे यथार्थ सुख नहीं है || ५ || संसार सम्बन्धी कोई भी वस्तु रमणीय नहीं है, इस प्रकार हमें गुरुके उपदेशसे निश्चय हो
१ अ श परमज्योति ब परमां ज्योति" । २ अ व ब श मनसगोचरम् । ३ अ सुष्टा शोभन क सुष्टा शोभना । ४ श करोतीव । ५ श 'तत्' नास्ति ।