________________
[१९. श्रीजिनपूजाष्टकम् 848) जातिजरामरणमित्यनलत्रयस्य जीवाश्रितस्य बहुतापकृतो यथावत् ।
विध्यापनाय जिनपादयुगानभूमौ धाराप्रयं प्रवरवारिकृतं क्षिपामि ॥१॥ 849) यवद्धचो जिनपतेर्भवतापहारि नाहं सुशीतलमपीह भवामि तद्वत् ।
कर्पूरचन्दनमितीव मयार्पितं सत् त्वत्पादपङ्कजसमाश्रयणं करोति ॥२॥ 850) राजत्यसौ शुचितराक्षतपुअराजिदत्ताधिकृत्य जिनमक्षतमक्षधूतैः।
वीरस्य नेतरजनस्य तु वीरपट्टो बद्धः शिरस्यतितरां श्रियमातनोति ॥३॥ 851) साक्षादपुष्पशर एव जिनस्तदेनं संपूजयामि शुचिपुष्पशरैर्मनोझैः।
नान्यं तदाश्रयतया किल यन्न यत्र तत्तत्र रम्यमधिकां कुरुते च लक्ष्मीम् ॥ ४॥ जिनपादयुगाग्रभूमौ । प्रवरवारिकृतं जलकृतं धारात्रयं क्षिपामि । अहम् इति अध्याहारः । जातिः जन्म जरा मरणम् इति अनलत्रयस्य । यथावत् विधिपूर्वकम् । विध्यापनाय शान्तये । किंलक्षणस्य अनलत्रयस्य । जीवेषु आश्रितस्य । पुनः बहुतापकृतः आमापकारकस्य१॥ जलधारी। कर्परचन्दनं त्वत्पादपङ्कजसमाश्रयणं करोति । भो देव । परचन्दनं तव चरण-आ योति। मया पूजकेन । अर्पितं दत्तम् । सत् समीचीनम् । इतीव । इतीति किम् । इह लोके । अहं सुशीतलमपि तद्वत् शीतलं न भवामि यद्वत जिनपतेः वचः । भवतापहारि संसारतापहरणशीलम् । कर्पूरचन्दनम् इति हेतोः सर्वज्ञस्य चरणकमलम् आश्रयति ॥ २॥ चन्दनम् । असौ शुचितराक्षतपुअराजिः । राजति शोभते । किंलक्षणा अक्षतपुजराजिः। जिनम् अधिकृत्य दत्ता। किलक्षणं जिनम् । अक्षधूतैः इन्द्रियधूतैः कृत्वा । अक्षतं न पीडितम् । पक्षे इन्द्रियलम्पटै न पातितम् । महावीरस्य । शिरसि मस्तके। बद्धः पट्टः । अतितराम् अतिशयेन । श्रियं शोभाम् । आतनोति विस्तारयति । तु पुनः। इतरस्य जनस्य कुदेवस्य वा कातरजनस्य । पट्टः बद्धः न शोभते ॥ ३ ॥ अक्षतम् । एष जिनः साक्षात् । अपुष्पशरः कन्दर्परहितः । तत्तस्मात् । एनं श्रीसर्वज्ञम् । मनोज्ञैः शुचिपुष्पशरैः कुसुममालाभिः। अहं पूजकः संपूजयामि । अन्यं न पूजयामि । कया। तदाश्रयतया। कामाश्रयत्वेन अन्यं न अर्चयामि।
__ जन्म, जरा और मरण ये जीवके आश्रयसे रहनेवाली तीन अग्नियां बहुत सन्तापको करनेवाली हैं। मैं उनको शान्त करनेके लिये जिन भगवान्के चरणयुगलके आगे विधिपूर्वक उत्तम जलसे निर्मित तीन धाराओंका क्षेपण करता हूं॥१॥ जिस प्रकार जिन भगवान्की वाणी संसारके सन्तापको दूर करनेवाली है उस प्रकार शीतल हो करके भी मैं उस सन्तापको दूर नहीं कर सकता हूं, इस प्रकारके विचारसे ही मानों मेरे द्वारा भेंट किया गया कपूरमिश्रित वह चन्दन हे भगवन् ! आपके चरणकमलोंका आश्रय करता है ॥ २ ॥ इन्द्रियरूप धूतोंके द्वारा बाधाको नहीं प्राप्त हुए ऐसे जिन भगवान्के आश्रयसे दी गई वह अतिशय पवित्र अक्षतोंके पुंजोंकी पंक्ति सुशोभित होती है । ठीक है- पराक्रमी पुरुषके शिरपर बांधा गया वीरपट्ट जैसे अत्यन्त शोभाको विस्तृत करता है वैसे कायर पुरुषके शिरपर बांधा गया वह उस शोभाको विस्तृत नहीं करता ॥३॥ यह जिनेन्द्र प्रत्यक्षमें अपुष्पशर अर्थात् पुष्पशर (काम) से रहित है, इसलिये मैं इसकी मनोहर व पवित्र पुष्पशरों (पुष्पहारों ) से पूजा करता हूं। अन्य ( ब्रह्मा आदि ) किसीकी भी मैं उनसे पूजा नहीं करता हूं, क्योंकि, वह पुष्पशर अर्थात् कामके अधीन है। ठीक है--- जो रमणीय वस्तु जहां नहीं होती है वह वहां अधिक लक्ष्मीको करती है ॥ विशेषार्थ- पुष्पशर शब्दके दो अर्थ होते हैं, पुष्परूप बामोंका धारक कामदेव तथा पुष्पमाला । यहां श्लेषकी प्रधानतासे उक्त दोनों अर्थोकी विवक्षा करके यह बतलाया गया है जिन भगवान्के पास पुष्पशर (कामवासना) नहीं है, इसलिये मैं उसकी
भश ‘जलधारा चन्दनं अक्षत' इत्यादिशब्दाः टीकायाः प्रारम्भे लिखिताः सन्ति । २ श 'कर्पूरचन्दनं नास्ति। ३ शशीतलं न भवामि यदत्' इत्येतावान् पाठो नास्ति ।