________________
२३२
[8283१६२३
पअनन्दि-पञ्चविंशतिः अरिष्टनेमिर्जगतीति विश्रुतः
स ऊर्जयन्ते जयतादितः शिवम् ॥ २२ ॥ 829 ) यदूर्ध्वदेशे नभसि क्षणादहि
प्रभोः फणारत्नकरैः प्रधावितम् । पदातिभिर्वा कमठाहतेः कृते
करोतु पार्श्वः स जिनो ममामृतम् ॥ २३ ॥ 830) त्रिलोकलोकेश्वरतां गतो ऽपि यः
स्वकीयकायेऽपि तथापि निःस्पृहः । स वर्धमानो ऽन्त्यजिनो नताय मे ददातु मोक्षं मुनिपद्मनन्दिने ॥ २४ ॥
चक्रधारात्वं प्राप्तः । इति हेतोः । जगति विषये। अरिष्टनेमिः । विश्रुतः विख्यातः । अभवत् । पुनः ऊर्जयन्ते रैवतके। शिवम् इतः मोक्षं गतः ॥ २२॥ स पार्श्वः जिनः मम अमृतं करोतु मोक्षं करोतु । यदूर्घदेशे यस्य पार्श्वनाथस्य ऊर्ध्वदेशे । नभसि आकाशे। क्षणात् शीघ्रात् । अहिप्रभोः धरणेन्द्रस्य । फणारत्नकरैः। प्रधावितं प्रसारितम् । कमठाहतेः कमठपीडनस्य । कृते कारणाय । पदातिभिः इव ॥२३॥ स वर्धमानः अन्त्यजिनः । मे मह्यम् । मोक्षं ददातु । मे पद्मनन्दिने । नताय नम्राय मोक्षं करोतु । यः श्रीवर्धमानः त्रिलोकलोकेश्वरतां गतोऽपि तथापि खकीयकाये शरीरे निःस्पृहः ॥ २४ ॥ इति स्वयंभूस्तुतिः समाप्ता ॥ १६ ॥
काटनेके लिये चक्रकी धारके समान होनेसे जगत्में भव्य जनोंके बीच 'अरिष्टनेमि' इस सार्थक नामसे प्रसिद्ध होकर गिरनार पर्वतसे मुक्तिको प्राप्त हुआ है वह नेमिनाथ जिनेन्द्र जयवंत होवे ॥ २२ ॥ जिसके ऊपर आकाशमें धरणेन्द्रके फणों सम्बन्धी रत्नोंके किरण कमठके आघातके लिये अर्थात् उसके उपद्रवको व्यर्थ करनेके लिये क्षणभरमें पादचारी सेनाके समान दौड़े थे वह पार्श्वनाथ जिनेन्द्र मेरे लिये अमृत अर्थात् मोक्षको करे ॥ २३ ॥ तीन लोकके प्राणियोंमें प्रभुताको प्राप्त होकर भी जो अपने शरीरके विषयमें भी ममत्व भावसे रहित है वह वर्धमान अन्तिम तीर्थंकर नम्रीभूत हुए मुझ पद्मनन्दी मुनिके लिये मोक्ष प्रदान करे ॥ २४ ॥ इस प्रकार खयंभूस्तोत्र समाप्त हुआ ॥ १६ ॥
१ क कमठाहते।
२ अ विक्षातः, क विज्ञातः।
३ क क्षणात् अहिप्रभोः।
४ श कमठस्य आहतेः।