________________
१९६ पद्मनन्दि-पञ्चविंशतिः
[668 : १२-९तत्सांनिध्यविलोकनप्रतिवचःस्पर्शादयः कुर्वते
किं नानर्थपरंपरामिति यतेस्त्याज्याबला दूरतः॥९॥ 669 ) वेश्या स्याडनतस्तदस्ति न यतेश्चेदस्ति सा स्यात् कुतो
नात्मीया युवतिर्यतित्वमभवत्तत्यागतो यत्पुरा। पुंसो ऽन्यस्य च योषितो यदि रतिश्छिन्नो नृपात्तत्पतेः
स्यादापजननद्वयक्षयकरी त्याज्यैव योषा यतेः ॥१०॥ 670) दारा एव गृहं न चेष्टकचितं तत्तैर्गृहस्थो भवेत्
तत्त्यागे यतिरादधाति नियतं स ब्रह्मचर्य परम् । वैकल्यं किल तत्र चेत्तदपरं सर्व विनष्टं व्रतं
पंसस्तेन विना तदा तदभयभ्रष्यत्वमापद्यते ॥११॥ 671) संपद्येत दिनद्वयं यदि सुखं नो भोजनादेस्तदा
स्त्रीणामप्यतिरुपगर्वितधियामङ्गं शवागायते । मार्गात् प्रपातं करोति । क्लेशं करोति । तत्सांनिध्यविलोकनप्रतिवचःस्पर्शादयः तस्याः युवत्याः निकट विलोकनप्रतिवचनस्पर्शादयः। अनर्थपरंपरां पापपरंपराम् । किं न कुर्वते । अपि तु कुर्वते । इति हेतोः । भो यते' । अबला दूरतः त्याज्या त्यजनीया ॥९॥ वेश्या धनतः स्यात् भवेत् । तद्धनं यतेः नास्ति । चेत् यदि । कलिप्रभावात् यतिभिः धनं गृहीतं तद्धनं यतेः अस्ति तदा सा वेश्या कुतः कस्मात् प्राप्यते । तस्य यतेः आत्मीया अपि युवतिः न । सैव त्यक्ता। यत् यस्मात् । पुरा पूर्वम् । तत्त्यागतः स्त्रीत्यागतः । यतित्वम् अभवत् । च पुनः । अन्यस्य पुंसः पुरुषस्य । योषितः सकाशात् । यदि । रतिः की तदा तत्पतेः तस्याः स्त्रियाः पतेः [ पत्युः ] वल्लभात् । अथधा नृपात् । छिन्नः हस्तपादइन्द्रियादिछेदितः । आपत् स्यात् भवेत् । ततः कारणात् । योषा जननद्वयक्षयकरी इहलोकपरलोकद्वयक्षयकरी। यतेः त्याज्या ॥ १०॥ दाराः स्त्री एव गृहम् । च पुनः । इष्टकचितं व्याप्तं गृहं गृहं न । लोके ईटः । तत्तस्मात्कारणात् । तैः कलत्रैः कृत्वा । गृहस्थः भवेत् । तत्त्यागे स्त्रीत्यागे सति । स यतिः नियतं निश्चितम् । परं ब्रह्मचर्यम् आदधाति आचरति । चेत् यदि । तत्र ब्रह्मचर्ये वैकल्यम् । किल इति सत्ये । अपरं सर्व सकलं व्रतम् । विनष्टम् । तेन ब्रह्मचर्येण विना तदा पुंसः पुरुषस्य । तदुभयभ्रष्टत्वम् आपद्यते प्राप्यते इहलोके परलोके भ्रष्टं भवेत् ॥ ११॥ यदि स्त्रीणाम् । भोजनादेः सकाशात् । दिनद्वयं सुखं नो संपद्येत सुखं न उत्पद्यते । तदा स्त्रीणाम् अवश्य करते हैं । इसलिये साधुको ऐसी स्त्रीका दूरसे ही त्याग करना चाहिये ॥ ९॥ वेश्या धनसे प्राप्त होती है, सो वह धन मुनिके पास है नहीं । यदि कदाचित् वह धन भी उसके पास हो तो भी वह प्राप्त कहांसे होगी ? अर्थात् उसकी प्राप्ति दुर्लभ है । इसके अतिरिक्त यदि अपनी ही स्त्री मुनिके पास हो, सो यह भी सम्भव नहीं है। क्योंकि, पूर्वमें उसका त्याग करके ही तो मुनिधर्म स्वीकार किया है । यदि किसी दूसरे पुरुषकी स्त्रीसे अनुराग किया जाय तो राजाके द्वारा तथा उस स्त्रीके पतिके द्वारा भी इन्द्रियछेदन आदिके कष्टको प्राप्त होता है । इसलिये साधुके लिये दोनों लोकोंको नष्ट करनेवाली उस स्त्रीका त्याग ही करना चाहिये ॥ १० ॥ स्त्री ही घर है, ईंटोंसे निर्मित घर वास्तवमें घर नहीं है । उस स्त्रीरूप गृहके सम्बन्धसे ही श्रावक गृहस्थ होता है । और उसका त्याग करके साधु नियमित उत्कृष्ट ब्रह्मचर्यको धारण करता है । यदि उस ब्रह्मचर्यके विषयमें विकलता ( दोष ) हो तो फिर अन्य सब व्रत नष्ट हो जाता है । इस प्रकार उस ब्रह्मचर्यके विना पुरुष दोनों ही लोकोंसे भ्रष्ट होता है, अर्थात् उसके यह लोक और परलोक दोनों ही बिगड़ते हैं ॥ ११ ॥ यदि दो दिन ही भोजन आदिका सुख न प्राप्त हो तो अपने सौन्दर्यपर अत्यन्त अभिमान करनेवाली उन स्त्रियोंका शरीर मृत शरीरके समान हो जाता है । स्त्रीके शरीरमें सम्बद्ध लावण्य
१श 'अपि तु कुर्वते' नास्ति। २ श 'भो यते' नास्ति। ३ श 'भवेत्' नास्ति। ४ श इष्टः। ५ क 'स' नास्ति। ६श ‘सकलं' नास्ति। ७श इहलोकपरलोकभ्रष्टं।