________________
- 544 : ९-३० ]
९. आलोचना
542 ) इत्यास्थायं हृदि स्थिरं जिन भवत्पादप्रसादात्सतीमध्यात्मैकतुलामयं जन इतः शुद्ध्यर्थमारोहति । एनं कर्तुममीच दोषिणमितः कर्मारयो दुर्धरास्तिष्ठन्ति प्रसभं तदत्र भगवन् मध्यस्थसाक्षी भवान् ॥ २८ ॥ 543 ) द्वैतं संसृतिरेव निश्चयवशादद्वैतमेवामृतं
संक्षेपादुभयत्र जल्पितमिदं पर्यन्तकाष्ठागतम् । निर्गत्यादिपदाच्छनैः शबलितादन्यत्समालम्बते यः सो ऽसंश इति स्फुटं व्यवहृतेर्ब्रह्मादिनामेति च ॥ २९ ॥ 544 ) चारित्रं यदभाणि केवलहशा देव त्वया मुक्तये पुंसा तत्खलु मादृशेन विषमे काले कलौ दुर्धरम् । भक्तिर्या समभूदिह त्वयि दृढा पुण्यैः पुरोपार्जितैः संसारार्णवतारणे जिन ततः सैवास्तु पोतो मम ॥ ३० ॥
१६७
I
विकल्पान् कृत्वा दुःखाय अशुभं कर्म मुधैव किं कुरुषे । किंलक्षणान् विकल्पान् । बहून् रागद्वेषमयान् । यदि वा भेदज्ञानम् आसाद्य प्राप्य | आनन्दामृतसागरे शुद्धात्मनि वससि तदा निश्चितं त्वम् एकताम् उपगतं सुखं स्फीतं यासि ॥ २७ ॥ भो जिन । हृदि इति आस्थाय आरोप्य । स्थिरम् अयं जनः लोकः । भवत्पादप्रसादात् शुद्ध्यर्थम् । इतः एकस्मिन् पक्षे । अध्यात्मैकतुलां सतीम् आरोहति चटति । इतः द्वितीयपक्षे । अमी कर्मशत्रवः । एनं जनं लोकम् । दोषिणं कर्तुम् तिष्ठन्ति । प्रसभ बलात्कारेण । दुर्धराः । तत्तस्मात्कारणात् । अत्र न्याये | भो भगवन् । त्वम् । मध्यस्थसाक्षी ॥ २८ ॥ निश्वयवशात् द्वैतं संसृतिः एव । अद्वैतम् अमृतम् एव । संक्षेपात् उभयत्र संसारमोक्षयोः । इदं जल्पितम् । पर्यन्तकाष्ठागतम् । यः भव्यः । शनैः' मन्दं मन्दम् | आदिपदात् द्वैतपदात् । निर्गत्य शबलितात् एकीभूतात् निर्गत्य । अन्यत् निश्चयपदम् । समालम्बते । इति हेतोः । स निश्चयेन । असंज्ञः नामरहितः । स्फुटं व्यक्तम् । च पुनः । व्यवहृतेः व्यवहारात् । ब्रह्मादि नाम वर्तते ॥ २९ ॥ भो देव | त्वया मुक्तये यत् चरित्रम् अभाणि कथितम् । केर्नै । केवलदृशा केवलज्ञाननेत्रेण । तत् चारित्रम् । खलु निश्चितम् । लौकाले पञ्चमकाले । मादृशेन पुंसा धर्तुं दुर्धरम् । । किल पञ्चमकाले । त्वयि विषये ।। पुरा पूर्वम् । उपार्जितैः पुण्यैः कृत्वा । या भक्तिः समभूत् । दृढा बहुला । हे जिन । ततः कारणात् । संसारसमुद्रतारणे । सा एव भक्तिः मम पोतः प्रोहणसमानम् । अस्तु ॥ ३० ॥ बाह्य पर पदार्थों में बहुत-से राग-द्वेषरूप विकल्पोंको करके व्यर्थ ही दुःखके कारणीभूत अशुभ कर्मको क्यों करता है ? यदि तू एकत्व ( अद्वैतभाव ) को प्राप्त होकर आनन्दरूप अमृतके समुद्रभूत शुद्ध आत्मामें निवास करे तो निश्चयसे ही महान् सुखको प्राप्त हो सकेगा ॥ २७ ॥ हे जिन ! हृदयमें इस प्रकारका स्थिर विचार करके यह जन शुद्धि के लिये आपके चरणोंके प्रसादसे निर्दोष अध्यात्मरूपी अद्वितीय तराजू ( कांटा ) पर एक ओर चढ़ता है । और दूसरी ओर उसे सदोष करने के लिये ये दुर्जेय कर्मरूपी शत्रु बलात् स्थित होते हैं । इसलिये हे भगवन् ! इस विषय में आप मध्यस्थ (निष्पक्ष ) साक्षी हैं ॥ २८ ॥ श् द्वैत (आत्म-परका भेद ) ही संसार तथा अद्वैत ही मोक्ष है । यह इन दोनोंके विषयमें संक्षेपसे कथ जो चरम सीमाको प्राप्त है । जो भव्य जीव धीरे धीरे इस विचित्र प्रथम ( द्वैत) पदसे निकल कर दूसरे (अद्वैत ) पदका आश्रय करता है वह यद्यपि निश्चयतः वाच्य वाचकभावका अभाव हो जानेके कारण संज्ञा (नाम) से रहित हो जाता है; फिर भी व्यवहारसे वह ब्रह्मा आदि ( परब्रह्म, परमात्मा ) नामको प्राप्त करता है ॥ २९ ॥ हे जिन देव ! केवलज्ञानी आपने जो मुक्तिके लिये चारित्र बतलाया है उसे निश्चयसे मुझ जैसा पुरुष इस विषम पंचम कालमें धारण नहीं कर सकता है । इसलिये पूर्वोपार्जित महान्
1
१ श इत्याध्याय । २ श आरोहति इतः । ३ अ कर्तु तिष्टति प्रसभं, क कर्तुं प्रसभं । ४ क भगवन् भवान् त्वम् । ५ श शनैः ६ अ श अभाणि केन । ७ श केवलनेत्रेण ।
शनैः ।