________________
१६५
-537:९-२३]
९. आलोचना 535 ) आधिव्याधिजरामृतिप्रभृतयः संबन्धिनो वर्मण
स्तद्भिश्नस्य ममात्मनो भगवतः किं कर्तुमीशा जडाः। नानाकारविकारकारिण इमे साक्षान्नभोमण्डले
तिष्ठन्तोऽपि न कुर्वते जलमुचस्तत्र स्वरूपान्तरम् ॥ २१॥ 536 ) संसारातपदह्यमानवपुषा दुःखं मया स्थीयते
नित्यं नाथ यथा स्थलस्थितिमता मत्स्येन ताम्यन्मनः । कारुण्यामृतसंगशीतलतरे त्वत्पादपङ्केरुहे
यावद्देव समर्पयामि हृदयं तावत्परं सौख्यवान् ॥ २२ ॥ 537 ) साक्षग्राममिदं मनो भवति यद्वाह्यार्थसंबन्धभाक्
तत्कर्म प्रविजृम्भते पृथगहं तस्मात्सदा सर्वथा । चैतन्यात्तव तत्तथेति यदि वा तत्रापि तत्कारणं
शुद्धात्मन् मम निश्चयात्पुनरिह त्वय्येव देव स्थितिः ॥ २३ ॥ सद्रक्षा इतरनिग्रहः दुष्टनिग्रहः ॥२०॥ आधिर्मानसी व्यथा । व्याधिः शरीरोत्पन्नजरामृति-मरणप्रभृतयः । वर्मणः शरीरस्य संबन्धिनः सन्ति । इमे पूर्वोक्ता रोगाः जडाः मम आत्मनः किं कर्तुम् ईशाः समर्थाः। न किमपि। किंलक्षणस्य मम । तद्भिन्नस्य तेभ्यः रोगादिभ्यः भिन्नस्य । पुनः किंलक्षणस्य । भगवतः परमेश्वरस्य । नानाकारविकारकारिणः । जलमुचः मेघाः नभोमण्डले साक्षात् तिष्ठन्तोऽपि। तत्र आकाशमण्डले । स्वरूपान्तरं कर्तुं न समर्थाः भवन्ति आकाशम् अन्यरूपं न कुर्वते ॥ २१॥ हे नाथ । मया। नित्यं सदैव । दुःखं स्थीयते । किंलक्षणेन मया । संसारातपदह्यमानवपुषा शरीरेण । यथा स्थलस्थितिमता मत्स्येन ताम्यन्मनः यया भवति तथा दुःखं स्थीयते । हे देव । यावत्कालम् । त्वत्पादपङ्केरुहे तव चरणकमले । हृदयं समर्पयामि । तावत्कालं पर सौख्यवान् । किंलक्षणे तव चरणकमले। कारुण्यामृतसंगशीतलतरे ॥ २२ ॥ हे देव । भो शुद्धात्मन् । इदं मनः यद् बाह्यार्थसंबन्धभाक् भवति । किंलक्षणं मनः । साक्षग्रामम् इन्द्रियग्रामेण वर्तमानम् । तत्कर्म प्रतिज़म्भते' प्रसरति । अहं सदा सर्वदा । तस्मात्कर्मणः पृथक् यदि वा तथा चैतन्यात् तत्कर्म पृथक् । तत्रापि मयि । तत्कर्म ।
रक्षा करना और दुष्टको दण्ड देना, यह न्यायप्रिय राजाका कर्तव्य होता है ॥ २० ॥ आधि (मानसिक कष्ट ), व्याधि ( शारीरिक कष्ट ), जरा और मृत्यु आदि शरीरसे सम्बन्ध रखनेवाले हैं । मैं भगवान् आत्मा उस शरीरसे भिन्न हूं, अत एव उस शरीर सम्बन्धी वे जड़ आधि-व्याधि आदि मेरा क्या कर सकते हैं ? अर्थात् ये आत्माका कुछ भी विगाड़ नहीं कर सकते । ठीक भी है-प्रत्यक्षमें अनेक आकारों और विकारोंको करनेवाले ये बादल आकाशमण्डलमें रहकर भी आकाशके स्वरूपमें कुछ भी अन्तर नहीं करते हैं ॥२१॥ जिस प्रकार जलके सूख जानेपर स्थलमें स्थित हुआ मत्स्य मनमें अतिशय कष्ट पाता है उसी प्रकार संसाररूप घामसे जलनेवाले शरीरको धारण करता हुआ यहां स्थित होकर मैं भी अतिशय कष्ट पा रहा हूं । हे देव ! जब तक मैं दयारूप अमृतके सम्बन्धसे अतिशय शीतलताको प्राप्त हुए तुम्हारे चरण-कमलोंमें अपने हृदयको समर्पित करता हूं तब तक अतिशय सुखका अनुभव करता हूं ।। २२ ॥ हे शुद्ध आत्मन् ! इन्द्रियसमूहके साथ यह मन चूंकि बाह्य पदार्थोंसे सम्बन्ध रखता है, अत एव उससे कर्म बढ़ता है । मैं उस कर्मसे सदा और सब प्रकारसे भिन्न हूं अथवा तुम्हारे चैतन्यसे वह कर्म सर्वथा भिन्न है । यहां भी वही पूर्वोक्त (चेतनाचेतनत्व) कारण है । हे देव ! मेरी स्थिति निश्चयसे यहां तुम्हारे विषयमें ही है ॥ २३ ॥
१श प्रतिजम्मते । २ क सर्वदा। ३ श नानाकारकारिणः । ४ क यथा' नास्ति । ५ क यतः बाह्यार्थः ।