________________
-412 : ६-१६ ]
६. उपालकसंस्कारः
१२९
405) सामायिकं न जायेत व्यसनम्लानचेतसः । श्रावकेन ततः साक्षात्याज्यं व्यसनसप्तकम् ॥९॥ 406) द्यूतमांस सुरावेश्याखेटचौर्यपराङ्गनाः । महापापानि सप्तैव व्यसनानि त्यजेद् बुधः ॥ १० ॥ 407 ) धर्मार्थिनो ऽपि लोकस्य चेदस्ति व्यसनाश्रयः । जायते न ततः सापि धर्मान्वेषणयोग्यता ॥११॥ 408) सप्तैव नरकाणि स्युस्तैरेकैकं निरूपितम् । आकर्षयन्नृणामेतद्व्यसनं स्वसमृद्धये ॥ १२ ॥ 409 ) धर्मशत्रु विनाशार्थ पापाख्यकुपतेरिह । सप्ताङ्गं बलवद्राज्यं सप्तभिर्व्यसनैः कृतम् ॥ १३ ॥ 410 ) प्रपश्यन्ति जिनं भक्त्या पूजयन्ति स्तुवन्ति ये । ते च दृश्याश्च पूज्याश्च स्तुत्याश्च भुयनत्रये ॥ 411 ) ये जिनेन्द्रं न पश्यन्ति पूजयन्ति स्तुवन्ति न । निष्फलं जीवितं तेषां तेषां धिक् च गृहाश्रमम् ॥ 412 ) प्रातरुत्थाय कर्तव्यं देवतागुरुदर्शनम् । भक्त्या तद्वन्दना कार्या धर्मश्रुतिरुपासकैः ॥ १६ ॥ सामायिकं व्रतम् ॥ ८ ॥ व्यसनम्लानचेतसः जीवस्य सामायिकम् । न जायेत न उत्पद्येत । ततः कारणात् । श्रावकेन साक्षात् व्यसनसप्तकम् | त्याज्यं त्यजनीयम् ॥ ९ ॥ बुधः ज्ञानवान् । सप्तैव व्यसनानि त्यजेत् । किंलक्षणानि व्यसनानि । महापापानि । द्यूतमांसमुरावेश्याखेट चौर्य पराङ्गनाः एतानि सप्त व्यसनानि महापापानि बुधः त्यजेत् ॥ १० ॥ लोकस्य । चेत् यदि । व्यसनाश्रयः अस्ति । ततः व्यसनात् । धर्मान्वेषणयोग्यता न जायते धर्मक्रिया न जायते न उत्पद्यते । किंलक्षणस्य लोकस्य । धर्मार्थिनोऽपि धर्मयुक्तस्य ॥ ११ ॥ हि यतः । नरकाणि सप्तैव । तैः नरकैः । एतत् व्यसनम् एकैकं निरूपितं खसमृद्धये नृणाम् आकर्षयन् ॥ १२ ॥ इह संसारे' | सप्तभिर्व्यसनैः । पापाख्यकुपतेः कुराज्ञः । राज्यं सप्तानं कृतम् । किंलक्षणं राज्यम् । बलवत् बलिष्ठम् । पुनः' किंलक्षणं राज्यम् । धर्मशत्रुविनाशार्थम् ॥ १३ ॥ ये भव्या नराः । जिनं भक्त्या कृत्वा प्रपश्यन्ति । च पुनः । जिनेन्द्रं पूजयन्ति । ये भव्या जिनेन्द्रं स्तुवन्ति । ते भव्याः । भुवनत्रये । दृश्याः अवलोकनीयाः । च पुनः । ते भव्याः पूज्याः । ते भव्याः स्तुत्याः ॥ १४ ॥ ये मूर्खा । जिनेन्द्रं न पश्यन्ति । ये मूर्खाः जिनेन्द्रं न पूजयन्ति । ये मूर्खाः जिनेन्द्रं न स्तुवन्ति । तेषां जीवितं जीवनं निष्फलम् । च पुनः । तेषां मूर्खाणा गृहाश्रमं धिक् ॥ १५ ॥ उपासकैः श्रावकैः । प्रातः प्रभाते । उत्थाय देवतागुरुदर्शनं कर्तव्यम् । भक्त्या कृत्वा । तद्वन्दना कार्या तेषां देवगुरुशास्त्रादीनां वन्दना कार्या कर्तव्या श्रावकैः । धर्मश्रुतिः जिसका चित्त द्यूतादि व्यसनोंके द्वारा मलिन हो रहा है उसके उपर्युक्त सामायिककी सम्भावना नहीं है । इसलिये श्रावकको साक्षात् उन सात व्यसनोंका परित्याग अवश्य करना चाहिये ॥ ९ ॥ द्यूत, मांस, मद्य, वेश्या, शिकार, चोरी और परस्त्री ये सातों ही व्यसन महापापस्वरूप हैं । विवेकी जनको इनका त्याग करना चाहिये ॥ १० ॥ धर्माभिलाषी जन भी यदि उन व्यसनोंका आश्रय लेता है तो इससे उसके वह धर्मके खोजनेकी योग्यता भी नहीं उत्पन्न होती है ॥ ११ ॥ नरक सात ही हैं । उन्होंने मानो अपनी समृद्धिके लिये मनुष्योंको आकर्षित करनेवाले इस एक एक व्यसनको नियुक्त किया है ॥ १२ ॥ इन सात व्यसनोंने मानो धर्मरूपी शत्रुको नष्ट करनके लिये पाप नामसे प्रसिद्ध निकृष्ट राजाके सात राज्यांगों (राजा, मंत्री, मित्र, खजाना, देश दुर्ग और सैन्य ) से युक्त राज्यको बलवान् किया है || विशेषार्थ - अभिप्राय इसका यह है कि इन व्यसनोंके निमित्तसे धर्मका तो हास होता है और पाप बढ़ता है । इसपर ग्रन्थकर्ताके द्वारा यह उत्प्रेक्षा की गई है कि मानो पापरूपी राजाने अपने धर्मरूपी शत्रुको नष्ट करनेके लिये अपने राज्यको इन सात व्यसनों रूप सात र|ज्यांगोंसे ही सुसज्जित कर लिया है ॥ १३ ॥ जो भव्य प्राणी भक्तिसे जिन भगवानका दर्शन, पूजन और स्तुति किया करते हैं वे तीनों लोकों में स्वयं ही दर्शन, पूजन और स्तुतिके योग्य बन जाते हैं । अभिप्राय •यह कि वे स्वयं भी परमात्मा बन जाते हैं ॥ १४ ॥ जो जीव भक्तिसे जिनेन्द्र भगवान्का न दर्शन करते हैं, न पूजन करते हैं, और न स्तुतिं ही करते हैं उनका जीवन निष्फल है; तथा उनके गृहस्थाश्रमको धिक्कार है ॥ १५ ॥ श्रावकको प्रातःकालमें उठ करके भक्तिसे जिनेन्द्र देव तथा निर्मन्थ गुरुका दर्शन और उनकी
१ क इह जगति संसारे । २ क 'पुनः नास्ति । ३ श 'मूर्खाणां' नास्ति । पद्मनं० १७