________________
[ ६. उपासकसंस्कारः ]
397 ) आद्यो जिनो नृपः श्रेयान् व्रतदानादिपुरुषौ । एतदन्योन्यसंबन्धे धर्मस्थितिरभूदिह ॥ १ ॥ 398) सम्यग्ग्बोधचारित्रत्रितयं धर्म उच्यते । मुक्तेः पन्थाः स एव स्यात् प्रमाणपरिनिष्ठितः ॥ २ ॥ 399 ) रत्नत्रयात्मके मार्गे संचरन्ति न ये जनाः । तेषां मोक्षपदं दूरं भवेद्दीर्घतरो भवः ॥ ३ ॥ 400 ) संपूर्णदेशभेदाभ्यां स च धर्मो द्विधा भवेत्। आधे भेदे च निर्ग्रन्थाः द्वितीये गृहिणः स्थिताः ॥ 401 ) संप्रत्यपि प्रवर्तेत धर्मस्तेनैव वर्त्मना । तेन ते ऽपि च गण्यन्ते गृहस्था धर्महेतवः ॥ ५ ॥ 402 ) संप्रत्यत्र कलौ काले जिनगेहे' मुनिस्थितिः । धर्मश्च दानमित्येषां श्रावका मूलकारणम् ॥ ६ ॥ 403) देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां षट्कर्माणि दिने दिने ॥ ७ ॥ 404 ) समता सर्वभूतेषु संयमे शुभभावना । आर्तरौद्र परित्यागस्तद्धि सामायिकं व्रतम् ॥ ८ ॥
आद्यः जिनः ऋषभः द्वितीयः श्रेयान् राजा अत्रे भरतक्षेत्रे द्वौ ऋषभश्रेयांसौ व्रतदानादिकारणौ जातौ । इह भरतक्षेत्रे । एतदन्योन्यसंबन्धे स परस्परं संबन्धे सति । धर्मस्थितिः अभूत् ॥ १ ॥ सम्यग्दर्शनज्ञानचारित्रत्रितयं धर्मः । उच्यते कथ्यते । स एव धर्मः निश्चयेन | मुक्तेः पन्थाः मार्गः स्यात् भवेत् । प्रमाणपरिनिष्ठितः प्रमाणेन कथितमार्गः ॥ २ ॥ ये जनाः लोकाः | रत्नत्रयात्मके मार्गे न संचरन्ति । तेषां जीवानाम् । मोक्षपदं दूरं भवेत् । भवः संसारः । दीर्घतरः बहुलः भवेत् ॥ ३ ॥ च पुनः । स धर्मः' संपूर्णदेशमेदाभ्यां द्विधा भवेत् । आद्ये भेदे महाव्रते । निर्ग्रन्थाः स्थिताः मुनयः स्थिताः । च पुनः । द्वितीये भेदे अणवते । गृहिणः स्थिताः ॥ ४ ॥ धर्मः । संप्रति पञ्चमकाले अपि । तेनैव वर्त्मना गृहिधर्ममार्गेण प्रवर्तेत । तेन हेतुना । तेऽपि गृहस्था धर्महेतवः । गण्यन्ते कथ्यन्ते ॥ ५ ॥ अत्र कलौ काले पञ्चमकाले । संप्रति इदानीम् । जिनगेहे चैत्यालये । मुनिस्थितिः वर्तते । इति हेतोः । धर्मः दानं च । एषां मुनिस्थितिदानधर्माणाम् । मूलकारणं श्रावकाः सन्ति ॥ ६ ॥ गृहस्थानां दिने दिने इति षट्कर्माणि सन्ति । तत् किम् । देवपूजा । च पुनः । गुरूपास्तिः गुरुसेवा | स्वाध्यायः पञ्चभेदः । संयमस्तु द्वादशभेदकः । तपस्तु द्वादशधा । दानं चतुर्विधम् । इति षट्कर्माणि दिने दिने सन्ति ॥ ७ ॥ हि यतः । तत् सामायिकम् । मतं कथितम् । यत्र सामायिक । सर्वभूतेषु सर्वजीवेषु । समता क्षमा । संयमेषु शुभभावना । यत्र सामायिके आर्तरौद्र परित्यागः । तत्
1
आद्य जिन अर्थात् ऋषभ जिनेन्द्र तथा श्रेयान् राजा ये दोनों क्रमसे व्रतविधि और दानविधिके आदिप्रवर्तक पुरुष हैं, अर्थात् व्रतोंका प्रचार सर्वप्रथम ऋषभ जिनेन्द्रके द्वारा प्रारम्भ हुआ तथा दानविधिका प्रचार राजा श्रेयान्से प्रारम्भ हुआ । इनका परस्पर सम्बन्ध होनेपर यहां भरत क्षेत्रमें धर्मकी स्थिति हुई ॥ १ ॥ सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र - इन तीनोंको धर्म कहा जाता है तथा वही मुक्तिका मार्ग है जो प्रमाणसे सिद्ध है ॥ २ ॥ जो जीव रत्नत्रयस्वरूप इस मोक्षमार्गमें संचार नहीं करते हैं उनके लिये मोक्ष स्थान तो दूर तथा संसार अतिशय लंबा हो जाता है || ३ || वह धर्म सम्पूर्ण धर्म और देश धर्मके भेदसे दो प्रकारका है। इनमें से प्रथम भेदमें दिगम्बर मुनि और द्वितीय भेदमें गृहस्थ स्थित होते हैं ॥ ४ ॥ वर्तमानमें भी उस रत्नत्रयस्वरूप धर्मकी प्रवृत्ति उसी मार्गसे अर्थात् पूर्णधर्म और देशधर्म स्वरूपसे हो रही है । इसीलिये वे गृहस्थ भी धर्मके कारण माने जाते हैं || ५ || इस समय यहां इस कलिकाल अर्थात् पंचम कालमें मुनियोंका निवास जिनालय में हो रहा है और उन्हींके निमित्तसे धर्म एवं दानकी प्रवृत्ति है । इस प्रकार मुनियोंकी स्थिति, धर्म और दान इन तीनोंके मूल कारण गृहस्थ श्रावक हैं ॥ ६ ॥ जिनपूजा, गुरुकी सेवा, स्वाध्याय, संयम और तप ये छह कर्म गृहस्थोंके लिये प्रतिदिन करनेके योग्य हैं अर्थात् वे उनके आवश्यक कार्य हैं ॥ ७ ॥ सब प्राणियोंके विषयमें समताभाव धारण करना, संयमके विषयमें शुभ विचार रखना तथा आर्त एवं रौद्र ध्यानोंका त्याग करना, इसे सामायिक व्रत माना जाता है ॥ ८ ॥
1
१ च गेहो । २ श प्रतौ 'अत्र' पदं नास्ति । ३ क स धर्मः एव । ७ श स्वाध्यायस्य पंच मेदानि । ८ अ श कथितं व्रतं यत्र ।
४ अ श कथितः । ५ श धर्मः सः । ६ श 'इति' नास्ति ।