________________
१२४ पद्मनन्दि-पञ्चविंशतिः
[384:४-७७384) एकत्वसप्ततिरिय सुरसिन्धुरुचैःश्रीपमनन्दिहिमभूधरतः प्रसूता।
यो गाहते शिषपदाम्बुनिधि प्रविष्टामेतां लभेत स नरः परमां विशुद्धिम् ॥ ७ ॥ 385) संसारसागरसमुत्तरणकसेतुमेनं सतां सदुपदेशमुपाश्रितानाम् ।
कुर्यात्पदं मललवो ऽपि किमन्तरले सम्यक्समाधिविधिसंनिधिनिस्तरङ्गे ॥ ७८ ॥ 386) आत्मा मिन्नस्तदनुगतिमत्कर्म मिन्नं तयोर्या प्रत्यासत्तेर्भवति विकृतिः सापि भिन्ना तथैव ।
___ कालक्षेत्रप्रमुखमपि यत्तञ्च मिन्नं मतं मे भिन्न भिन्नं निजगुणकलालंकृतं सर्वमेतत् ॥ ७९ ॥ 387) ये ऽभ्यासयन्ति कथयन्ति विचारयन्ति संभावयन्ति च मुहुर्मुहुरात्मतत्त्वम् ।
ते मोक्षमक्षयमनूनमनन्तसौख्यं क्षिप्रं प्रयान्ति नवकेवललब्धिरूपम् ॥ ८ ॥ सह । पर केवलम् । एकताम् । गतोऽस्मि प्राप्तोऽस्मि ॥ ७६ ॥ इयम् एकत्वसप्ततिः। सुरसिन्धुः आकाशगङ्गा । उच्चैः श्रीपद्मनन्दिहिमभूधरतैः उच्चतरश्रीपद्मनन्दिहिमाचलपर्वतात् । प्रसूता उद्भूता उत्पन्ना । यः पुमान् । एताम् आकाशगङ्गाम् । गाहते आन्दोलयति । स नरः परमा विशुद्धिम् । लभेत प्राप्नुयात् । किंलक्षणाम् एकत्वसप्ततिम् आकाशगङ्गाम् । शिवपदाम्बुनिधिं प्रविष्टां मोक्षसमुद्रं प्राप्ताम् ॥ ७७ ॥ भो भव्याः श्रूयताम् । एनम् । सत् समीचीनम् उपदेशम् उपाश्रितानाम् । सतां सत्पुरुषाणाम् । अन्तरले मनसि अभ्यन्तरे मनसि । मललवोऽपि पापलेशोऽपि। किं पदं स्थानं कुर्यात् । अपि तु न कुर्यात् । किंलक्षणम् उपदेशम् । संसारसागरसमुत्तरणैकसेतुम् एकपोहणम्। किंलक्षणे अन्तरङ्गे । सम्यक्समाधिविधिसंनिधिनिस्तरणे समीचीनसाम्यविधिसमीपेन अनाकुले ॥ ७८ ॥ आत्मा भिन्नः । तदनुगतिमत् तस्य जीवस्य अनुगामि कर्म भिन्नम् । तयोः द्वयोः आत्मकर्मणोः । प्रत्यासत्तेः सामीप्यात् । या विकृतिः भवति सापि भिन्ना। तथैव सा विकृतिः आत्मकर्मवद्भिना । यत् कालक्षेत्रप्रमुखं तदपि भिन्नम् । च पुनः । एतत्सर्वम् । निजगुणालंकृतम् आत्मीयगुणपर्यायसंयुक्तम् । मत्तः भिन्न भिन्नम् । मतं कथितम् ॥ ७९ ॥ ये मुनयः । आत्मतत्त्वम् । मुहुर्मुहुः वारंवारम् । अभ्यासयन्ति। च पुनः। ये मुनयः आत्मतत्त्वं कथयन्ति । ये मुनयः आत्मतत्त्वं विचारयन्ति । ये मुनयः आत्मतत्त्वं संभावयन्ति । ते मुनयः क्षिप्रं शीघ्रम् । अनूनं मोक्षं प्रयान्ति । ने ऊनं अनूनं सौख्येन पूर्ण मोक्षम् । किंलक्षणं मोक्षम् । अक्षयं विनाशरहितम् । अनन्तसौख्यम् । पुनः किंलक्षणं मोक्षम् । नवकेवललब्धिरूपं नवकेवलखरूपम् ॥ ८० ॥ इत्येकत्वाशीतिः [इत्येकत्वसप्ततिः ] समाप्ता ॥ ४ ॥ वही एक चैतन्य उत्कृष्ट है । मैं स्वभावतः केवल उसीके साथ एकताको प्राप्त हुआ हूं ॥ ७६ ॥ जो यह एकत्वसप्तति (सत्तर पद्यमय एकत्वविषयक प्रकरण ) रूपी गंगा उन्नत ( ऊंचे ) श्री पद्मन्दीरूपी हिमालय पर्वतसे उत्पन्न होकर मोक्षपदरूपी समुद्रमें प्रविष्ट हुई है उसमें जो मनुष्य स्नान करता है ( एकत्वसप्ततिके पक्षमें- अभ्यास करता है) वह मनुष्य अतिशय विशुद्धिको प्राप्त होता है ॥ ७७ ॥ जिन साधुजनोंने संसाररूपी समुद्रके पार होनेमें अद्वितीय पुलस्वरूप इस उपदेशका आश्रय लिया है उनके उत्तम समाधिविधिकी समीपतासे निश्चलताको प्राप्त हुए अन्तःकरणमें क्या मलका लेश भी स्थान पा सकता है ? अर्थात् नहीं पा सकता ॥ ७८ ॥ आत्मा भिन्न है, उसका अनुसरण करनेवाला कर्म मुझसे भिन्न है, इन दोनोंके सम्बन्धसे जो विकारभाव उत्पन्न होता है वह भी उसी प्रकारसे भिन्न है, तथा अन्य भी जो काल एवं क्षेत्र आदि हैं वे भी भिन्न माने गये हैं। अभिप्राय यह कि अपने गुणों और कलाओंसे विभूषित यह सब भिन्न भिन्न ही है ॥ ७९ ॥ जो भव्य जीव इस आत्मतत्त्वका बार बार अभ्यास करते हैं, व्याख्यान करते हैं, विचार करते हैं, तथा सम्मान करते हैं; वे शीघ्र ही अविनश्वर, सम्पूर्ण, अनन्त सुखसे संयुक्त एवं नौ केवललब्धियों ( केवलज्ञान, केवलदर्शन, क्षायिक दान, लाभ, भोग, उपभोग, वीर्य, क्षायिक सम्यक्त्व और क्षायिक चारित्र) स्वरूप मोक्षको प्राप्त करते हैं ॥ ८० ॥ इस प्रकार यह एकत्वसप्तति प्रकरण समाप्त हुआ ॥ ४ ॥
१श 'श्रीपचनन्दिहिमभूधरतः' नास्ति। २१ समुत्तरणएकपोहणं, क समुत्तरणएकसेतुं प्रोहणं । ३ श ते। ४श ये । ५भ शीघ्रं नूनं मोक्षं प्रयान्ति न, क शीघ्र अनूनं न ।