________________
१२२
पद्मनन्दि-पञ्चविंशतिः
[369: ४-६२
369 ) आस्तां तत्र स्थितो यस्तु चिन्तामात्रपरिग्रहः । तस्यात्र जीवितं श्लाघ्यं देवैरपि स पूज्यते ॥ ६२॥ 370 ) सर्वविद्भिरसंसारैः सम्यग्ज्ञानविलोचनैः । एतस्योपासनोपायः साम्यमेकमुदाहृतम् ॥ ६३ ॥ 371) साम्यं स्वास्थ्यं समाधिश्व योगश्वेतो निरोधनम् । शुद्धोपयोग इत्येते भवन्त्येकार्थवाचकाः ॥ ६४ ॥ 372 ) नाकृतिर्नाक्षरं वर्णो नो विकल्पश्च कञ्चन । शुद्धं चैतन्यमेवैकं यत्र तत्साम्यमुच्यते ॥ ६५ ॥ 373 ) साम्यमेकं परं कार्य साम्यं तवं परं स्मृतम् । साम्यं सर्वोपदेशानामुपदेशो विमुक्तये ॥ ६६ ॥ 374) साम्यं सद्बोधनिर्माणं शश्वदानन्दमन्दिरम् । साम्यं शुद्धात्मनो रूपं द्वारं मोक्षैकसद्मनः ॥६७॥ 375) साम्यं निःशेषशास्त्राणां सारमाहुर्विपश्चितः । साम्यं कर्ममहाकक्षदाहे दावानलायते ॥ ६८ ॥ 376 ) साम्यं शरण्यमित्याहुयोगिनां योगगोचरम् । उपाधिरचिताशेषदोषक्षपणकारणम् ॥ ६९ ॥
॥ ६१ ॥ तत्र आत्मनि । स्थितः प्रवर्तनम् । आस्तां दूरे तिष्ठतु । तु पुनः । यः चिन्तामात्रपरिग्रहः पुरुषः अस्ति । अत्र संसारे । तस्य जीवितं श्लाघ्यम् । स पुमान् देवैरपि पूज्यते ॥ ६२ ॥ सर्वविद्भिः सर्वज्ञैः । एतस्य आत्मन: । उपासनोपायः सेवनोपायः । साम्यम् एकम् । उदाहृतं कथितम् । किंलक्षणैः सर्वज्ञैः । असंसारैः संसाररहितैः । पुनः किंलक्षणैः । सम्यग्ज्ञान विलोचनैः ॥ ६३॥ इति एते एकार्थवाचकाः भवन्ति । ते के। साम्यं स्वास्थ्यम् । च पुनः । समाधिः योगः चेतोनिरोधनं शुद्धोपयोगः ॥ ६४ ॥ तत्साम्यम् उच्यते यत्र एकमेव शुद्धं चैतन्यम् अस्ति । यस्य शुद्धस्य आकृतिः न समचतुरखादिआकृतिः १ न । यस्य चैतन्यस्य आकारादि अक्षरं न । यस्य शुद्धस्य शुक्लादिः वर्णः न । यस्य शुद्धचैतन्यस्य कश्चन विकल्पः न । तत्साम्यम् उच्यते ॥ ६५ ॥ परम् एकं साम्यं कार्यं कर्तव्यम् । साम्यं परं तत्त्वं स्मृतं कथितम् । साम्यं सर्वोपदेशानां सर्वशास्त्र - उपदेशानाम् । विमुक्तये मोक्षाय उपदेश: ॥ ६६ ॥ एतत्साम्यं सद्बोधनिर्माणं सद्बोधस्य निर्मापकम् । पुनः शश्वत् आनन्दमन्दिरं कल्याणस्थानम् । पुनः सार्म्य शुद्धात्मनः रूपम् अस्ति । पुनः साम्यं मोक्षैकसद्मनः मोक्षगृहस्य द्वारम् ॥ ६७ ॥ विपश्चितः पण्डिताः । निःशेषशास्त्राणां सारं साम्यम् । आहुः कथयन्ति । कर्ममहाकक्ष-वन-दाहे साम्यम् । दावानलायते दावानल इवाचरति ॥ ६८ ॥ साम्यं योगिनां योगगोचरम् अस्ति । इति हेतोः । शरण्यम् आहुः । किंलक्षणं साम्यम् । उपाधिरचित - अशेषदोषक्षपणकारणं समान है || विशेषार्थ - अभिप्राय यह कि जिस प्रकार अमूर्त आकाशके ऊपर चित्रका निर्माण करना असम्भव है उसी प्रकार अतीन्द्रिय आत्माके विषयमें कुछ वर्णन करना भी असम्भव ही है । वह तो केवल स्वानुभव के गोचर है ॥ ६१ ॥ जो उस आत्मामें लीन है वह तो दूर ही रहे । किन्तु जो उसका चिन्तन मात्र करता है उसका जीवन प्रशंसाके योग्य है, वह देवों के द्वारा भी पूजा जाता है || ६२ || जो सर्वज्ञ देव संसारसे रहित अर्थात् जीवनमुक्त होते हुए सम्यग्ज्ञानरूप नेत्रको धारण करते हैं उन्होंने इस आत्माके आराधनका उपाय एक मात्र समताभाव बतलाया है ॥ ६३॥ साम्य, स्वास्थ्य, समाधि, योग, चित्तनिरोध और शुद्धोपयोग; ये सब शब्द एक ही अर्थके वाचक हैं ॥ ६४॥ जहां न कोई आकार है, न अकारादि अक्षर है, न कृष्ण - नीलादि वर्ण है, और न कोई विकल्प ही है; किन्तु जहां केवल एक चैतन्यस्वरूप ही प्रतिभासित होता है उसीको साम्य कहा जाता है ॥ ६५॥ वह समताभाव एक उत्कृष्ट कार्य है । वह समताभाव उत्कृष्ट तत्त्व माना गया है । वही समताभाव सब उपदेशोंका उपदेश है जो मुक्तिका कारण है, अर्थात् समताभावका उपदेश समस्त उपदेशोंका सार है, क्योंकि उससे मोक्षकी प्राप्ति होती है ॥ ६६ ॥ समताभाव सम्यग्ज्ञानको उत्पन्न करनेवाला है, वह शाश्वतिक ( नित्य ) सुखका स्थान है, वह समताभाव शुद्ध आत्माका स्वरूप तथा मोक्षरूपी अनुपम प्रासादका द्वार है ॥ ६७ ॥ पण्डित जन समताभावको समस्त शास्त्रोंका सार बतलाते हैं । वह समताभाव कर्मरूपी महावनको भस्म करनेके लिये दावानल के समान है ॥ ६८ ॥ जो समताभाव योगी जनों के योगका विषय होता हुआ बाह्य और आभ्यन्तर परिग्रहके निमित्तसे उत्पन्न हुए समस्त दोषोंको नष्ट करनेवाला है वह शरणभूत कहा जाता है ॥ ६९ ॥ जो आत्मारूपी हंस अणिमादि
१ श समुचतुरस्रादि काचित् आकृतिः ।