________________
ranwww
पानन्दि-पञ्चविंशतिः
[188:१-९८०188) दूरादभीष्टमभिगच्छति पुण्ययोगात्
पुण्याद्विना करतलस्थमपि प्रयाति । अन्यत्परं प्रभवतीह निमित्तमात्र
पात्रं बुधा भवत निर्मलपुण्यराशेः ॥ १८८ ॥ 189 ) कोप्यन्धो ऽपि सुलोचनो ऽपि जरसा प्रस्तो ऽपि लावण्यवान्
निःप्राणोऽपि हरिविरूपतनुरप्याघुष्यते' मन्मथः। उद्योगोज्झितचेष्टितो ऽपि नितरामालिङग्यते च श्रिया
पुण्यादन्यमपि प्रशस्तमखिलं जायेत यहुर्घटम् ॥ १८९ ॥ 190) बन्धस्कन्धसमाश्रितां सृणिभृतामारोहकाणामलं
पृष्ठे भारसमर्पणं कृतवतां संचालनं ताडनम् । दुर्वाचं वदतामपि प्रतिदिनं सर्व सहन्ते गजा
निःस्थानां बलिनो ऽपि यत्तदखिलं दुष्टो विधिश्चेष्टते ॥ १९० ॥ रत्नानि जायन्ते । पुण्येन लेपकाष्ठघटिता देवताः सिद्धिप्रदा जायन्ते । धर्मेण सर्व प्राप्यते ॥ १८ ॥ भो बुधाः भो भव्याः। निर्मलपुण्यराशेः पात्रं भवत । इह संसारे । पुण्ययोगात् । अभीष्टं वाञ्छितम् । दूरात् अभिगच्छति आगच्छति । पुण्याद्विना करतलस्थमपि प्रयाति । अन्यत् कश्चित् । परं निमित्तमात्रम् । प्रभवति ॥ १८८ ॥ भो भव्याः । श्रूयतां पुण्यमाहात्म्यम् । पुण्यात् कोऽपि अन्धः सुलोचनो भवति । कश्चित् जरसा प्रस्तोऽपि पुण्याल्लावण्यवान् भवति । कश्चित् निःप्राणोऽपि बलरहितोऽपि । पुण्यात् हरिः सिंहः भवति । कश्चित् विरूपतनुः निन्द्यशरीरः अपि पुण्यात् मन्मथः आघुष्यते। च पुनः । उद्योगोज्झितचेष्टितोऽपि उद्यमरहितोऽपि। नितराम् अतिशयेन । पुण्यात् त्रिया आलिङ्ग्यते। यदुर्घट वस्तु तत् पुण्यात् प्राप्यते ॥ १८९ ॥ भो भव्याः श्रूयतां पापफलम् । गजा हस्तिनः । बलिनः अपि बलिष्ठा अपि। यत् निःस्थाम्रो बलरहितानाम् । आरोहकाणां गजरक्षकाणाम् । सर्वम् उपद्रवं सहन्ते । तदखिलम् । दुष्टो विधिश्चेष्टते पापकर्म-उदयं जानीहि । तत् उपद्रवं किम् । बन्धस्कन्धसमाश्रितां स्कन्धे प्राप्तानाम् । सृणिभृताम् अङ्कुशधारकाणाम् । षष्ठीयोगे तृतीया (2)। तैः अकुशधारकैः कृत्वा । अलम् अतिशयेन । पृष्ठे भारसमर्पणम्। किंलक्षणानाम् अकुशधारकाणाम् । प्रतिदिनं संचालनं कृतवताम् । पुन दिनं दिन प्रति ताडनं दुर्वाचं वदताम् । गजाः सहन्ते ॥ १९० ॥ भो भव्याः श्रूयतां पुण्यप्रभावम् । यस्य नरस्य । धर्मः अस्ति । तस्य धर्मिणः । सर्पः हारलता भवति । तस्य धर्मिणः । असिलता खगलता। सत्पुष्पदामायते । सधर्मिणः पुरुषस्य विषमपि प्राप्त करता है ॥ १८७ ॥ पुण्यके योगसे यहां दूरवर्ती मी अमीष्ट पदार्थ प्राप्त हो जाता है और पुण्यके विना हाथमें स्थित पदार्थ भी चला जाता है। दूसरे पदार्थ तो केवल निमित्त मात्र होते हैं। इसलिये हे पण्डित जन ! निर्मल पुण्य राशिके भाजन होओ, अर्थात् पुण्यका उपार्जन करो ॥ १८८ ॥ पुण्यके प्रभावसे कोई अन्धा भी प्राणी निर्मल नेत्रोंका धारक हो जाता है, वृद्धावस्थासे संयुक्त मनुष्य भी लावण्ययुक्त (सुन्दर) हो जाता है, निर्बल प्राणी भी सिंह जैसा बलिष्ठ बन जाता है, विकृत शरीरवाला भी कामदेवके समान सुन्दर घोषित किया जाता है, तथा उद्योगसे हीन चेष्टांवाला भी जीव लक्ष्मीके द्वारा गाढ़ आलिंगित होता है अर्थात् उद्योगसे रहित मनुष्य भी अत्यन्त सम्पत्तिशाली हो जाता है । जो भी प्रशंसनीय अन्य समस्त पदार्थ यहां दुर्लभ प्रतीत होते हैं वे भी सब पुण्यके उदयसे प्राप्त हो जाते हैं ।। १८९ ॥ जो महावत हाथीको बांधकर उसके कंधेपर आरूढ़ होते हैं, अंकुशको धारण करते हैं, पीठपर भारी बोझा लादते हैं, संचालन व ताड़न करते हैं; तथा दुष्ट वचन भी बोलते हैं, ऐसे उन पराक्रमहीन भी महावतोंके समस्त दुर्व्यवहारको जो बलवान् होते हुए भी हाथी प्रतिदिन सहन करते हैं यह सब दुर्दैवकी लीला है, अर्थात् इसे पापकर्मका ही फल समझना चाहिये ॥ १९० ॥ धर्मात्मा प्राणीके लिये विषैला सर्प हार बन जाता है,
१च-प्रतिप्रपाठोऽयम्, भकब श आयुष्यते। २श पापकर्मोदयं ।