________________
41१२००
१. धर्मापदेशामृतम् 185) भृङ्गाः पुष्पितकेतकीमिव मृगा बन्यामिव स्वस्थली
नद्यः सिन्धुमिवाम्बुजाकरमिव श्वेतच्छदाः पक्षिणः। शौर्यत्यागविवेकविक्रमयशःसंपत्सहायादयः
सर्वे धार्मिकमाश्रयन्ति न हितं धर्मे विना किंचन ॥ १८५॥ 186) सौभागीयसि कामिनीयसि सुतश्रेणीयसि श्रीयसि
प्रासादीयसि यत्सुखीयसि सदा रूपीयसि प्रीयसि । यद्वानन्तसुखामृताम्बुधिपरस्थानीयसीह ध्रुवं
निर्धूताखिलदुःखदापदि सुहृद्ध मतिर्धार्यताम् ॥ १८६ ॥ 187) संछन्नं कमलैर्मरावपि सरः सौधं वने ऽप्युन्नतं
कामिन्यो गिरिमस्तके ऽपि सरसाः साराणि रत्नानि च । जायन्ते ऽपि च लेप[प्य ]काष्ठघटिताः सिद्धिप्रदा देवताः
धर्मश्चेदिह वाञ्छितं तनुभृतां किं किं न संपद्यते ॥ १८७ ॥ भो भव्याः श्रूयताम् । प्राणिनां धर्म विना किंचन हितं सुखकरं न। शौर्यसुभटतात्यागविवेकविक्रमयशःसंपत्सहायादयः सर्वे गुणाः। धार्मिकं नरम् आश्रयन्ति । तत्रोत्प्रेक्षते । कां के इव। पुष्पितकेतकी भृङ्गा इव । वन्यां वनोदवा वन्या तास। वस्थली मृगा इव । यथा सिन्धुं समुद्र नद्य इव। यथा अम्बुजाकर सरोवरं श्वेतच्छदाः पक्षिणः हंसा इव । तथा धार्मिक नरं गुणाः आश्रयन्ति ॥ १८५॥ भो सुहृत् । इह संसारे । ध्रुवं धर्मे मतिः। धार्यतां क्रियताम् । किलक्षणे धर्मे । निर्धूताखिलदुःखदापदि स्फेटित-आपदुःखे चेत् । सौभागीयसि सौभाग्यं वाञ्छसि । चेत् यदि । कामिनीयसि कामिनी स्त्री वाञ्छसि । चेत् यदि । सुतश्रेणीयसि पुत्रसमूहं वाञ्छसि । यदि चेत् । श्रीयसि लक्ष्मी वाञ्छसि । यदि चेत् । प्रासादीयसि मन्दिरं वाग्छसि । यदि चेत् । सुखीयसि सुखं वाञ्छसि । यदि सदा रूपीयसि रूपं वाञ्छसि । यदि प्रीयसि सर्वजदनप्रियो भवितुमिच्छसि । यदा अनन्तसुख-अमृत-अम्बुधि-समुद्रे । परं केवलं स्थानीयसि स्थातुं वाञ्छसि । तदा धर्म कुरु ॥ १८६ ॥ इह संसारे । तनुमृतां जीवानाम् । चेत् यदि धर्मः अस्ति । तदा किं किं वाञ्छितं न संपद्यते । अपि तु सर्व प्राप्यते। पुण्येन मरौ मरुस्थले अपि । कमलैः संछन्नम् आच्छादितम् । सरः संपद्यते । पुण्येन वने अपि उन्नतं सौधं मन्दिरम् । संपद्यते। पुण्येन गिरिमस्तके अपि कामिन्यः स्त्रियः संपद्यन्ते। किंलक्षणाः स्त्रियः। सरसाः रसयुक्ताः । च पुनः । पुण्येन साराणि करना चाहिये ॥ १८४ ॥ जिस प्रकार भ्रमर फूले हुए केतकी वृक्षका आश्रय लेते हैं, मृग जिस प्रकार अपने जंगली स्थानका आश्रय लेते हैं, नदियां जिस प्रकार समुद्रका सहारा लेती हैं, तथा जिस प्रकार हंस पक्षी सरोवरका आलम्बन लेते हैं, उसी प्रकार वीरता, त्याग, विवेक, पराक्रम, कीर्ति, सम्पत्ति एवं सहायक आदि सब धार्मिक पुरुषका आश्रय लेते हैं । ठीक है- धर्मको छोड़कर और दूसरा कोई प्राणीके लिये हितकारक नहीं है ॥ १८५ ॥ हे मित्र ! यदि तुम यहां सौभाग्यकी इच्छा करते हो, सुन्दर स्त्रीकी इच्छा करते हो, सुतसमूहकी इच्छा करते हो, लक्ष्मीकी इच्छा करते हो, महलकी इच्छा करते हो, सुखकी इच्छा करते हो, सुन्दर रूपकी इच्छा करते हो, प्रीतिकी इच्छा करते हो, अथवा यदि अनन्त सुखरूप अमृतके समुद्र जैसे उत्तम स्थान ( मोक्ष ) की इच्छा करते हो तो निश्चयसे समस्त दुखदायक आपत्तियोंको नष्ट करनेवाले धर्ममें अपनी बुद्धिको लगाओ ॥ १८६ ॥ धर्मके प्रभावसे मरुभूमिमें भी कमलोंसे व्याप्त सरोवर प्राप्त हो जाता है, जंगलमें भी उन्नत प्रासाद बन जाता है, पर्वतके शिखरपर भी आनन्दोत्पादक वल्लभायें तथा श्रेष्ठ रत्न भी प्राप्त हो जाते हैं । इसके अतिरिक्त उक्त धर्मके ही प्रभावसे भित्तिके ऊपर अथवा काष्ठसे निर्मित देवता मी सिद्धिदायक होते हैं । ठीक है-धर्म यहां प्राणियोंके लिये क्या क्या अभीष्ट पदार्थ नहीं प्राप्त कराता है ? सब कुछ
१श स्फोटित । २कप्रियो भवसि। ३श यदा।
पद्धन. १०