________________
१. धर्मोपदेशामृतम् यत्तस्मादपि मृत्युकालकलयाधस्ताद्धठात्पात्यसे
तत्तन्नित्यपदं प्रति प्रतिदिनं रे जीव यत्नं कुरु ॥ १४२॥ 143) यद् दृष्टं बहिरङ्गनादिषु चिरं तत्रानुरागो ऽभवत्
भ्रान्त्या भूरि तथापि ताम्यसि ततो मुक्त्वा तदन्तर्विश । चेतस्तत्र गुरोः प्रबोधवसतेः किंचित्तदाकर्ण्यते
प्राप्ते यत्र समस्तदुःखविरमाल्लभ्येत नित्यं सुखम् ॥ १४३ ॥ 144) किमालकोलाहलैरमलबोधसंपन्निधेः
समस्ति यदि कौतुकं किल तवात्मनो दर्शने । निरुद्धसकलेन्द्रियो रहसि मुक्तसंगग्रहः
कियन्त्यपि दिनान्यतः स्थिरमना भवान् पश्यतु ॥ १४४ ॥ 145) हे चेतः किमु जीव तिष्ठसि कथं चिन्तास्थितं सा कुतो
रागद्वेषवशात्तयोः परिचयः करमाश्च जातस्तव । प्रतिदिनं दिनं दिन प्रति । यनं कुरु । अहो अन्यगतौ दूरे आस्ताम् । किंलक्षणायाम् अन्यगतौ । प्रतिक्षणं समय समय प्रति । लसत् -प्रादुर्भूतदुःखेन युक्तायाम् । देवत्वे ऽपि देवपदे ऽपि। भवतः तव शान्तिः न अस्ति । किंलक्षणे देवपदे । अणिमामहिमाआदिअष्टऋद्धिश्रिया कृत्वा। रम्येऽपि मनोहरे ऽपि । भो आत्मन् । यत्तस्मादपि स्वर्गादपि । मृत्युकालकलया हठात् अधस्तात् पात्यसे। ततः मुक्ती यत्नं कुरु ॥ १४२॥ हे चेतः भो मनः। यत् बहिः अनादिषु । चिरे चिरकालम् । दृष्टम्। तत्र अङ्गनादिषु भ्रान्त्या अनुरागः अभवत् । तथापि ततः तस्मात्कारणात् । भूरि बहुलं ताम्यसि खेदं यासि। तत् वृथैव खेदं यासि । तत् अनुराग प्रेम मुक्त्वा । अन्तःकरणे विश प्रवेश कुरु। तत्र अन्तःकरणे । गुरोः प्रबोधवसतेः तत् किंचित् आ गुरुवचने प्राप्ते सति । समस्तदुःखविरमात् दुःखनाशात् नित्यं सुखं लभ्येत ॥ १४३ ॥ आलकोलाहलैः किम् । यदि चेत् । किल इति सत्ये । तवास्मनः दर्शने । कौतुकम् अस्ति कौतुकं वर्तते। किंलक्षणस्य आत्मनः । अमलबोधसंपन्निधेः निर्मलज्ञाननिधेः । भवान् अन्तःकरणात् कियन्ति अपि दिनानि। रहसि एकान्ते पश्यतु। किंलक्षणः भवान् । निरुद्धसकलेन्द्रियः संकोचितेन्द्रियः । पुनः किंलक्षणः भवान् । मुक्तसंगग्रहः रहितपरिग्रहः। पुनः किंलक्षणः भवान् । स्थिरमनाः ॥१४४॥ हे चेतः। किमु जीव । कथं तिष्ठसि । चिन्तास्थितं चिन्तास्थानं तिष्ठामि । जीवः ब्रवीति। रे मनः सा चिन्ता कुतः तिष्ठति वा सा चिन्ता कुतः कस्माज्जाता। रागद्वेषवशात् जाता। च पुनः। तयोः रागद्वेषयोः परिचयः तव कस्मादभूत्। स परिचयः इष्टानिष्टसमागमाजातः। इति अमुना नरक, तिर्यंच और मनुष्य गति तो दूर रहे; किन्तु आश्चर्य तो यह है कि आणिमा आदिरूप लक्ष्मीसे रमणीय देवगतिमें भी तुझे शान्ति नहीं है। कारण कि वहांसे भी तू मृत्यु कालके द्वारा जबरन् नीचे गिराया जाता है। इसलिये तू प्रतिदिन उस नित्य पद अर्थात् अविनश्वर मोक्षके प्रति प्रयत्न कर ॥ १४२॥ हे चित्त ! तूने बाह्य स्त्री आदि पदार्थोंमें जो सुख देखा है उसमें तुझे भ्रान्तिसे चिरकाल तक अनुराग हुआ है। फिर भी तू उससे अधिक सन्तप्त हो रहा है । इसलिये उसको छोड़कर अपने अन्तरात्मामें प्रवेश कर । उसके विषयमें सम्यग्ज्ञानके आधारभूत गुरुसे ऐसा कुछ सुना जाता है कि जिसके प्राप्त होनेपर समस्त दुःखोंसे छुटकारा पाकर अविनश्वर (मोक्ष) सुख प्राप्त किया जा सकता है ॥ १४३ ॥ हे जीव ! तेरे लिये यदि निर्मल ज्ञानरूप सम्पत्तिके आश्रयभूत आत्माके दर्शनमें कौतूहल है तो व्यर्थके कोलाहल (बकवाद) से क्या ? अपनी समस्त इन्द्रियोंका निरोध करके तू परिग्रह-पिशाच को छोड़ दे । इससे स्थिरचित्त होकर तू कुछ दिनमें एकान्तमें उस अन्तरात्माका अवलोकन कर सकेगा ॥१४४ ॥ यहां जीव अपने चित्तसे कुछ प्रश्न करता है और तदनुसार चित्त उनका उत्तर देता है-हे चित्त ! ऐसा संबोधन करनेपर चित्त कहेता है कि हे जीव क्या है। इसपर जीव उससे पूछता है कि तुम कैसे स्थित हो? मैं चिन्तामें स्थित रहता हूं। वह चिन्ता किससे उत्पन्न हुई ह ? वह राग-द्वेषके वशसे उत्पन्न हुई है। उन राग-द्वेषका