SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥ ७० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जायते क्षीणमोहस्य, समधातुविवर्जितम् ।। १ ।।' इति भवत्प्राचामुक्तेः क्षीणमोहत्वाविशेषेऽपि नेमिप्रभृतेरर्हतो चिम्बे श्यामादिवर्णविपर्ययः किं स्वीक्रियते १, घातिकर्मक्षयजातिशयजन्यं चातुर्मुख्यं वा न कथं क्रियते, भगवतस्तदानीं तदवभासात्, एवं च कथं पार्श्वस्य फणाटोपः, तस्यामवस्थायां तदभावात् एवं कथं वा न भगवत ओष्ठयोः पाणिपादतले वा रक्तिमा लक्षणरूपपट्टकूल पोडशाभरणानि च तदवस्थायां तत्सस्यात्, अत्र पट्ट्कूलपोडशाभरणाक्षरसम्मतये तदर्थिना श्रीश्रुतसागरसूरिकृतषट्प्राभृतटीकादिगम्बरग्रन्थौ वक्ष्यों, हरिवंशपुराणेऽप्युक्तम्- "मास्करोऽब्धिस्तथा वीणा, व्यंजने वेणुरुत्तमः । मृदंगं पुष्पमाला च, हट्टः पट्टाम्बरं शुभम् ॥ १ ॥ नानाभरणसन्दोहः, कुंडलादिकनामभृत् । ' इति सप्तमाधिकार, दर्शनप्राभृतसूत्रे तु "बिहरह जाव जिणिदो सहससुलक्खणेहिं संजुतो । चउतीस अइसयजुओ सा पडिमा थावरा भणिया ।। १ ।। ' इति एतेन समवसर णावस्थायां दिवाकरसहस्रभासुरपरमोदारिकदेहवच्चात् तत्प्रतिविम्वस्य च तथाविधक न्त्यभावाद्रूपविपर्यये सत्यपि तद्भिया काश्मीरादिपूजात्यागे तेषां दुरभिनिवेश एवेत्यापादितं, अस्मन्मते तु नामी दोपा यथा कथंचित् स्वशक्त्या भासुरत्वप्रतिपादनात् प्रसादनीयतया नित्यप्रतिमानुसारेण विम्बकरणांगीकाराच्च, अत एव स्त्री मोक्षांगीकारेऽपि न तदाकारप्रतिमापूजनं, अप्रसादनीयत्वाद्, अत एव शयानानां गोदोहोत्कटिकाद्यासनस्थितानां न प्रतिमापूजनामिति, अथायं रूपविपर्ययो न सर्वधा, काश्मीरादिपूजायां तु सरागं रूपं भगवांस्तु वीतराग इति सर्वथा रूपविपर्यय इति चेत् न, सरागत्वस्य प्रागेव दत्तोत्तरत्वात्, यदि कदाचिद्विचार्यते तदा सपरिग्रहत्वरूपं भवति तस्यादुष्टत्वात्, अथ द्रष्टृणामपि परिग्रहोल्लासादस्ति दोष इति चेत् न, भगवत्समवसरणस्थमूर्त्या | व्यभिचारात्, नाग्न्यदर्शनेऽपि स्त्रीणामविकारादित्युक्तचरं, चिम्बेऽतिशयान तिशयाभ्यामावयोः समः समाधिरिति यत्किंचिदेतत् । न For Private and Personal Use Only काश्मीरा दि पूजा 1190 11
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy