________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाणारसी
.*-
योत्पत्ति
वर्षस्थानादि
*
युक्तिप्रबोधे ।
गवं कत्थवि हीणं कत्थवि अहियं मयाणुरापणं । सोभिनिवेसा ठावह भेयं च दिगवरोहिंतो ॥१७॥ ॥५६॥
एवं कुत्रापि हीनं कुत्राप्यधिक मतानुरागेण । सोभिनिवेशात् स्थापयति भेदं च दिगम्बरेभ्यः ॥ १७ ॥
सम्प्रति दृश्यमहीमण्डले मुनयो न सन्ति, सुनित्वेन व्यपदिश्यमाना भट्टारकादयो न गुरवः, पिच्छिकादिरुपधिन रक्षणीयः, पुराणादिकं न प्रमाणं, इत्यादिकं प्राक्तनदिगम्बरनयात् न्यूनं, अध्यात्मनयस्यैवानुसरणं, नागमिकः पन्था प्रमाणयितव्यः, साधूनां वनवास एव इत्याद्यधिकं, स्वमतस्य-अभिप्रायस्यानुरागो-दृढीकरणरुचिस्तेन 'अभिनिवेशात्' हठात् व्यवस्थापयति, न वयं दिगम्बरा नापि श्वेताम्बराः, किन्तु तत्त्वार्थिन इति धिया दिगम्बरेभ्योऽपि भेदं व्यवस्थापयति, तत्कालापेक्षया वर्तमाना, चकारात् सिताम्बरेभ्यस्तु महानेवास्य मतस्य भेद इति गाथार्थः, इति निष्क्रान्ताः सर्वे ॥ अथैवनाटकरूपस्य उत्पत्तिसमयमाह
सिरिविक्कमनरनाहा गएहिं सोलस सएहिं वासेहिं । असिउत्तरेहिं जायं बाणारसियस मयमेयं ॥१८॥ श्रीविक्रमनरनाथाद्गतैः षोडशशतैर्वषैः । अशीत्युत्तरर्जातं बाणारसीयस्य मतमेतत् ॥१८॥
श्रीविक्रमाकोद्राज्ञः षोडशशताशीतिवर्षातिक्रमे वाणारसीय मतमेतत् प्रवृत्तं, न चाध्यात्मशास्त्राणि पुरातनानि तन्मतमपि प्राचीनमिति कथमेतद् घटत इति वाच्यं, वाणारसीयमतेऽपि नव्यत्वेनैतज्ज्ञानस्य भणनात्, यदुक्तं कवित्ववन्धे नाटकेहै “अब यह बात कहो है जैसे, नाटक भाषा कह्यो सु ऐसे । कुन्दकुन्दमुनि मूल उद्धरता, अमृतचंद टीकाके करता ।। १ ।। पांडे
राजमल्ल जिनधी, ममयसार नाटकके मर्मी । तिनि गरंथ की टीका कीनी, बालाबोध सुगम करि दीनी ॥ २ ॥ इह विधि
ॐॐॐ-
EASE
-4-SCREENNECK
॥५६॥
For Private and Personal Use Only