SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S उपकरणसिद्धिः RECENCREA युक्तिप्रबोधे शादागमे कस्यचित् पादघातेन गृहगोधादिना वा घातः, एकत्र गृहे भोजने भूमिप्रमार्जनं सच्चित्तजलाटिच्छटा इत्यादयो मुनि मुद्दिश्य दोषा इत्युक्तं प्राक्. तेनोपकरणमात्रस्य निर्ममतया ध्रियमाणस्य संयमोपकारित्वमास्थेयमेव, अत एव नग्नताया न मुख्या॥५४॥ चारत्वं, सचेलत्वस्यापि मुख्याचारत्वात्, यदुक्तमुत्तराध्ययने- “एगया अचेलओ होइ, सचेले यावि एगया" यत्तु अचेलत्वं 3 तदौपचारिकमेव, युक्ताहारेऽप्यनाहारत्ववत्, यदुक्तं प्रवचनसारवृत्ती- “अथाप्रतिषिद्धशरीरमात्रोपधिप्रतिपालनविधानमुपदि शति-इहलोगनिरावेक्खो अप्पडिबद्धो परम्मि लोयम्मि । जुत्ताहारविहारो रहियकसाओ हवे समणो ॥१॥" चतुर्थश्रुतकन्धे त्रिंशत्तमगाथा, अथ युक्ताहारविहारः साक्षादनाहार एवेत्युपदिशति--- "जस्समणेसणमप्पा तंपि तवो तप्पडिच्छगा समणा । | अण्णं भिक्खमणसणमध ते समणा अणाहारा ॥ ३१॥ स्वयमनशनस्वभावत्वादेषणादापशून्यभक्ष्यत्वाच युक्ताहार: साक्षादना-1 हार एव स्यात, एवं स्वयमविहारस्वभावत्वात् समितिशुद्धविहारत्वाच्च युक्तविहारः साक्षादविहार एव स्यादित्यनुक्तमपि गम्यत इति, यथा चैतत् तथा युक्तचेलो मूछारहितपणादिदोषादुष्ट एकपट्टचेलभाम् अजितादिजिनतीर्थसाधुः प्रथमान्तिमजिनसाधुस्तु श्वेतमानाद्युपेतवस्त्रभाग यथाविहितत्वादचेल एवेति तुल्यं, तत्त्वतस्तु यथा स आहारकस्तथाऽयमपि सचेलक एव, न च तथात्वे बताभाव एव श्रद्धेयः, तदेवं सोपकरणानां यतीनां यतित्वसद्भावे सिद्धेऽपि सम्प्रति न तादृशा यतयो दृश्यन्त इत्येवं तत्प्ररूपणा । "यदपि तदपि मोहादन्तरंगावमोहाद्, अथिलशिथिलबुद्धिर्बोध्यमानोऽपि बुद्धः। सततमभिनिवेशक्लेशलेशस्य वश्यः, कथयति न कथंचित् कापथं चोज्जिहीते॥१॥ अहह ! गहनवृत्तिर्मोहचोकदयो, ननु यदनुचरत्वे निश्चितासौ त्रिलोकी। गुरुमगुरुविधानध्यानतो न प्रपन्ना, बहुलजलभवान्तर्मज्जनानीच्छतीव ॥२॥ व्यवहृतिपरिहारान्निश्चयस्यानवाप्तदृढतरमतमेतत् किं विकल्पैरनल्पैः ।। CIENCE S -CIENCS ॥५४॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy