________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥ ४४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छेदादल्पो बन्धस्ततोऽनुकमात् केवलमिति वाच्यम्, तथा सति गृहस्थस्यापि सिद्धिरस्मन्मता अनायासादेव सिद्धा, बहिहिंसक - त्वेऽपि भावतः शुद्ध्यैव तदुपपत्तेरिति न किंचिदेतत् यदुवाच वाचक:- 'जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंकुचने चेष्टं तेन पूर्व प्रमार्जनम् ॥ २ ॥ तेन 'जहजायरूवेति' गाथाया इच्छारूपपरिग्रहनिषेधपरत्वमेव उन्नेयम्, अन्यथा बहुग्रन्थविरोधः, 'भत्ते वा खवणे वा इत्यत्रापि निबन्धं प्रतिबन्धं नेच्छति इत्येव तात्पर्य, अन्यथा भक्तादेरपि परिग्रहप्रसंगात् न चैतत्यागो दृष्टः श्रुतो वा, यदि च तस्यापि त्याग एवोचित इति मतं तदा दीक्षानन्तरं शरीरमपि त्याज्यं, मूर्च्छाप्रसंगात्, तथा च धर्मोपदेशशिष्यवृत्त्याद्यभावेन तीर्थच्छेदान् मूलव्याहतिः, तत एव तिलतुपमात्रं धर्मेोपकरणव्यतिरिक्त मुनिना न ग्राह्यमिति तत्त्वार्थो गाथायाः अन्यथैव बुद्ध:, यदुक्तं दर्शनप्राभृतवृत्तौ यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १ ॥ एतेन शरभक्तावसथादेरशक्यत्यागत्वात् न परिग्रहत्वमित्यपि प्रत्युक्तम्, उत्सर्गेण तत्यागस्यापि शक्यत्वात्, पाक्षिकसूत्रेऽपि 'इच्छा मुच्छाय गेही य, कंखा लोभे य दारुणे' इत्यनेन इच्छाया एव परिग्रहत्वम्, अथ यदि बाह्यवस्तुग्रहणं स्यात्तदा इच्छाया आवश्यकत्वमेव, तस्याः सच्चे परिग्रहत्वमेवेति चेत्, न, आहारविहारधम्र्मोपदेश शिष्यसंग्रहादिषु यत्याचारेषु व्यभिचारात् न च बाह्यवस्तुग्रहरूपं कारण ईच्छारूपं कार्य जनयत्येवेति नियमः, मृत्तिकादिर्घटादिमिव, किन्तु आवश्यक कार्यजनने अन्येषामपि कारणानां सापेक्षत्वात्, तथाऽत्रापि, किंच-उपकरणग्रहस्य इच्छाजननेऽपि न महाव्रताभावः, संज्वलनलोभसहकृतेच्छाया महाव्रताघातकत्वात्, अत एवं १ "अपरिग्गहो अणिच्छो' इत्यादिप्रागुक समय सोरोक्त्या बाह्यकारणे सत्यपि इच्छाया अभावात्
For Private and Personal Use Only
गुरुतत्त्वस्थापना
॥ ४४ ॥