________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
पुराण प्रामाण्यविचारः
॥२८॥
छन्दत्वज्ञापनात्, यद्वा पुराण-प्राचीनं दिगम्बराचरणं प्रमाणमप्रमाणमिति व्याख्येयम् , उभयवचनात् न मम दिक्पटमतेन कार्य, किन्तु अहं तत्त्वार्थी, तथा च यज्जिनवचनानुसारि तदेव प्रमाणं नान्यदिति ख्यापितं, यद्वा पुराणं-जीर्ण तत्त्वार्थादि सूत्रमित्यपि
ज्ञेयं, अत्र यद्यपि पुराणादिदिगम्बरमतोत्थापने त एवं प्रतिविधातारस्तथापि कवलाहारादिव्यवस्थापने साक्षिकस्थानीयत्वात् | पुराणप्रामाण्यं साध्यते । ननु भो ! वाणारसीदास ! त्वं पुराणादिकमागमं न प्रमाणं मनुषे तत् किं देशतः सर्वतो वा ?, तत्र न | तावद् द्वितीयः, आदिपुराणश्रावकाचारादेरङ्गीकृतत्वात् , नाद्योऽपि, तत्तत्पुराणप्रतिपादितजिनादिचरितस्याप्यप्रामाण्यापत्ते
चरितरूपप्रथमानुयोगस्य जलाञ्जलिपातात्, यदुक्तं द्रव्यसंग्रहाध्यात्मशास्त्रवृत्ती- "वृषभादिचतुर्विशतितीर्थकरभरता| दिद्वादशचक्रवर्तिविजयादिनववलदेवत्रिपृष्ठादिनववासुदेवअश्वग्रीवादिनवप्रतिवासुदेवसम्बन्धित्रिषष्टिपुराणभेदभिन्नः प्रथमानुयोगो | भण्यते इति ।" एवं श्रावकाचारे समन्तभद्रकृते, तथाच गुणभद्रो महापुराणे-"रागादीन् दूरतस्त्यक्त्वा, शृङ्गारादिरसो|क्तिभिः । पुराणकारकाः शुद्धबोधाः शुद्धमुमुक्षवः॥१॥" अथैवं पुराणानि प्रमाणीभवन्तु, परं पूर्वापरविरोधात् किंचिदाधुनिकैः कुलिङ्गिभिर्दूषितमित्यनुमीयते, तथा च यथा भागवतं वचो न दुष्यति तदेव पुराणोक्तं प्रमाणम् , अत एव जिनादिचरितानि प्रमाणं, पिच्छिकादिकथनं चाप्रमाणमिति चेत् न, विकल्पासहत्वात् , तथाहि-अयं नियमः किं स्वानुभवात् विचाराक्षमत्वात् गुरूपदेशादध्यात्मशास्त्रकथनाद्वा?, नाद्यः स्वानुभवस्य केवलस्याप्रामाण्यात्, मिथ्यादृशामनुभवोऽप्यन्यथा कथं न प्रमाणं?, प्राचीनदिगम्बराजामपि नास्ति किंचित् पुराणादिषु काल्पनिकमित्यनुभवो वा कथमप्रमाणं?, अथ तदनुभवःप्रमाणेन बाध्यते मम तुन तथेति चेत् विपर्ययस्यापि वक्तुमौचित्यात् , भवतः प्रमाणनयनिक्षपत्रानशून्यस्यानुभवबाधाच्च, यस्यैव तत्वार्थाधिममस्तदीयानुभवस्यैव
%ARA
RSACRECRACK
॥२८॥
For Private and Personal Use Only