________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
यक्तिप्रबोध
॥ ९॥
विवेकरूपा न भाविता तावताऽनन्तशो जन्तुनाऽवाप्तमपि मोक्षाय न प्रभविष्णु, उक्तं च- "कुणउ तवं पालउ संजमं पढउ सयल- व्यवहारस्य सत्थाई । जाव न झायइ अप्पा ताव न मुक्खो जिणो भणइ ॥१॥" अन्यतीर्थीयशास्त्रेऽपि "न शब्दशास्त्राभिरतस्य मोक्षो, न
निष्फलत्वं बायकाडम्बरबन्धुरस्य । न भोजनाच्छादनविस्मितस्य, न लोकचित्तग्रहणे रतस्य ॥१॥ एकाग्रचित्तस्य दृढव्रतस्य, पंचेन्द्रिय-16 प्रीतिनिवर्तकस्य । अध्यात्मयोगे गतमानसस्य, मोक्षो ध्रुवं नित्यमहिंसकस्य ।। २॥ युग्ममिदम्' इतिहासे, श्रावकाचारे अमृतचन्द्रोऽप्याह- संघो कोऽवि न तारइ कट्ठो मूलो तहेव निप्पिच्छो । अप्पा तारइ अप्पा तम्हा अप्पा हु झादब्वो ॥१॥ उपदेशमालायामपि- "अप्पा चेव दमेयव्यो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥१॥ श्रीआचारांगसूत्रेऽपि प्रथमाध्ययने सप्तमोद्देशके- 'जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एतवृत्तिदेशो यथा-आत्मानमधिकृत्य वर्त्तते यत्तदध्यात्म तच्च सुखदुःखादि, तद् यो जानाति-अवबुध्यते स्वरूपतोऽवगच्छति स बहिरपि प्राणिगणं वायुकायादिकं जानाति, योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं शरीरमनःसमाश्रयं सुखं दुःखं धा वेत्ति इति, अत एवं प्रतिषिद्धः सर्वत्र व्यवहारनय आध्यात्मिकशास्त्रेषु, तद्यथा समयसारे यदुक्तम्- “ववहारोऽभूयस्थो भूयत्थो देसिओ उ सुद्धणओ । भूयत्थमासिओ खलु सम्माइट्ठी मुणेयव्वो ॥१॥" तथा सर्वे एव एते अध्यवसानादयो भावजीवा इति यद्भगवद्भिः सकल ः प्रज्ञप्तं तदभृतार्थस्यापि व्यवहारस्य दर्शनं, व्यवहारो हि व्यवहाराणां म्लेच्छभाषेव म्लेच्छानां परमार्थाप्रतिपादकत्वादपरमार्थः, तथा-अध्यवसितेन बन्धः सचान्मारयतु मा व मारयतु । एष बन्ध
॥ ९ ॥ समासो जीवानां निश्चयनयस्य ॥१॥ एवमलीकेऽदत्तेऽब्रह्मचर्ये परिग्रहे चैव। क्रियतेऽध्यवसानं यत् तेनैव तु बध्यते पापम् ॥२॥
For Private and Personal Use Only