SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥ १८४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किन्तु बाहुल्येन न कश्चिद्गच्छतीति तत्र भविव्यताया वैचित्र्यमेवेति दिक् ।। एवमष्टोत्तरशतसिद्धावपि अवगाहनागुरूणां गमनिका भाव्या । असंयतपूजा तूभयनयप्रसिद्धा इति, “शृणु देवि ! प्रवक्ष्येऽहं शीतलाख्यजिनेशिनः । तीर्थान्ते श्रीजिनेन्द्राणां घूम्मो नाशं प्रयातवान् ||१||” इति हरिवंशे १४ अधिकारे; दिङ्मात्रमेतत् वस्तुतस्तु न किमपि समाधानमाश्चर्याणां घटते, आश्रर्यत्वलक्षणस्वरूपव्याघातात्, किन्तु वक्रे दारुणि वक्रवेधन्यायेन तदंगीकृतपदार्थचचैव प्रतिवचः, तथाहि-त्वन्नये चक्रवर्त्तिमानमन आश्रय, तन विचारसह, अजातचक्रित्वाभिषेकस्य चक्रिणोऽपि बाल्यादौ पलायनाद्युपद्रव्यस्य ब्रह्मदत्तचत्रिकृष्णहर्षादिवददोषात् । द्वितीयं प्रागेवाकिञ्चित्करं ज्ञापितम् । श्रीमल्लिनेमिनोर्द्वयोरेव कुमारत्वमपरिणयनापेक्षया स्वातन्त्र्यराज्यभोगापेक्षया वाई, आये । द्वयेऽपि न तत्र कश्विद्विरोधो, दृश्येत च साम्प्रतमपि परिणीतानां राजपुत्राणां पितरि जीवति कुमारव्यवहारः, आपेक्षिकं चैतत्, निर्ग्रन्थत्ववत्, यथा गृहादिपरित्यागापेक्षया निर्ग्रन्थत्वं षष्ठगुणस्थाने, मिथ्यात्ववेदाद्यन्तरंगक्षेत्रादिबहिरंगग्रन्थपरित्यागापेक्षया निर्ग्रन्थत्वं क्षीणकषाये, यदुक्तं गोमहसार वृत्तौ - "क्षीणकषायः परमार्थतो निर्ग्रन्थो, ग्रन्थाः परिग्रहा मिथ्यात्ववेदादयोऽन्तरंगाचतुर्दश, बाहिरंगाच क्षेत्रादयो दश, तेभ्यो निष्क्रान्तः सर्वात्मना निवृत्तो निर्ग्रन्थ" इति मुख्यनिर्ग्रन्थलक्षणसद्भावात्, न प्रमत्तोऽनिर्ग्रन्थः, यतस्तत्रैवोक्तम्- - " संजलणणीकसायाणुदयाओ संजमो हवे जम्हा । मलजणणपमादोवि य तम्हा हु पमत्तविरओ सो ॥ ३२ ॥ यस्मात् कारणात् सज्ज्वलनानां क्रोधमानमायालोभानां नोकपायाणां च हास्यरत्यरतिभयशोकजुगुप्साखीपुंनपुंसकानां वेदानां तीव्रोदयात् यस्य संयमः सकलचारित्रं मलजननप्रमादोऽपि भवेद, स प्रमादसंयमवान् जीवः खलु स्फुर्ट प्रमचविरतो भवति । वत्तातपमाए जो बस पमचसंजओ होइ । सयसगुण सीलकलिओ महव्वई चित्तलायरणो ॥ ३३ ॥ For Private and Personal Use Only जल्पानां समाधानं ॥१८४||
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy