________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
केवलि
॥१५९॥
सिद्धि
A
ARCHURNA
| कावलिकेन तु कादाचित्क" इति, संग्रहण्यामपि लोमाहार उक्त एव केवलिविति, परं नासौ शरीरस्थितिहेतुस्तत्सत्त्वेऽपि कावलिक विना क्षुधया शरीरापचयस्याध्यक्षत्वात्, अकारणिक चेत् सिद्धानामपि तदाश्रवप्रसंगः, तथाऽर्हतां नोकाहारश्चेत् स्वीक्रियते तर्हि नोकम्मेनीहारोऽपि कथं न सम्मतः १, पुद्गलानां प्रतिक्षणं परिशाटात् इतरथा प्रतिक्षणं वर्गणाकर्षणे किंचिदूनपूर्वकोट्या शरीरस्थौल्यात्, अस्याहारस्य छावस्थ्येऽपि सम्भवात् शरीरस्थितौ कवलाहारानुपपत्तिरपि, शरीरस्थित्यर्थ ज्ञात्वैव केवलिनी, | वर्गणाकर्षणे अनन्तबलत्वानन्तसुखत्वे अपि स्वीकृत्य कवलाहारपरिहारप्रयत्नः सोऽपि विफलीस्यात, तथा च 'कृतव शीलविध्वंसो, | न चानंगः शमं गत' इति न्यायः सम्पन्नः, न च शरीरस्थितये इत्यधिकं, स्वभावादेव नोकाहार इति वाच्यं, पूर्वपक्षे शाखाक्षरैः तत्समर्थनात्, अपि च- भवता भावसंग्रहे नोकाहारोऽप्युपचारेण न वस्तुत इति 'णोकम्मकम्महारो उबयारेण तस्स आगमे भणिओ । ण हु णिच्छएण सोऽवि हु स वीयराओ परोजम्मा ॥१॥ इति, किंच-नोकाहारो वर्गणाकर्षणरूपः केवलिनः, स तु प्रदेशचलनाद् भवति, तथा च प्रदेशचलनं यावत् सयोगमस्ति, तेनाहारणाहारकत्वं चेत् कथं सयोगालापे गोमट्टसारवृत्ती आहारानाहारमिति द्वयमुक्तं तदुपपद्यते ?, संसारान्तावाप्त्यभावाच्च देहपरिस्पन्दाभावेऽपि देहिनः सततं प्रदेशचलनमस्ति, ततः सदा संसार एव, सिद्धानामयोगिकेवलिनां च नास्ति प्रदेशचलनं, तद्योग्यकर्मसामग्रथभावात् इति भावनासंग्रहे प्रोक्तं, तेन केवलिसमुद्घातेऽप्यनाहारकत्वं न युज्यते, प्रदेशचलनाद्वर्गणाकृष्टेरिति, यदपि समन्तभद्रवचः तत्रापि न भद्रं, पर्याप्तसंझिमनुष्येषु | १लोमाहारेण शरीरस्थिती अग्रस्थभावे कवलाहागभ्युपगमः कथम ? ।
AAG
॥१५९॥
For Private and Personal Use Only