SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केवलिनो वाणी युक्तिप्रवाशा काययोगव्यपाश्रयात् ॥ १॥ सूक्ष्मीकृत्य पुनः काययोगं च तदुपाश्रयम् । ध्यायेत् सूक्ष्मक्रिय ध्यानं, प्रतिपातपराङ्मुख ॥२॥ ॥१३८॥ मिति' एवं च सूक्ष्मक्रियाख्यं तृतीय शुक्लध्यानमन्तर्मुहर्तमेव, तदपि शैलेश्यकरणप्रारम्भात् प्रागेवानन्तरं, न पुनः केवलोत्पादानन्तरं शाश्वतिक, तथात्वे विहारोपदेशाद्यभावात्, मोक्षासनस्यैव कैवल्यासनप्रसंगाच्च, न हि ध्यानाद्धस्तपादाद्यवयवाचलने कैवल्यासनान्मोक्षासनं भिद्यते, अत एव योगध्यानस्य भवन्मते कालनियमो दृश्यते सोऽप्युपद्यते, बादरकाययोगस्य योगध्यानेऽपि संभवात् तावत्कालं पादरकाययोगस्य रोधाघटनात्, तर्हि तदर्वाक्काले कुतः काययोगनिरोधशंकाऽपि ?, योगध्यानकालस्त्वेवं द्वाषष्टिस्थानके 'श्रीऋषभस्य मोक्षासनं पर्यकरूपं, योगध्यान दिनानि चतुर्दश, अजितस्य मोक्षासनं ऊर्ध्वरूपं, योगध्यानं मास यावत्, श्रीनेमिपार्श्वयोर्मोक्षासनं पर्यको, योगध्यानं मासं यावत्, श्रीवीरस्य 8 मोक्षासनं पर्यकः योगध्यानं दिनद्वयं, शेषाणामर्हतामजितवत्', एवं योगत्यागक्रियापि कियत्कालभाविनी महापुराणे, 'ततः परार्थसम्पत्त्य, धर्ममार्गोपदेशने । कृततीर्थविहारस्य, योगत्यागः परक्रिया ॥१॥ एवं क्रियाकलापे शुभचन्द्रोप्याह- 'आद्यश्चतुर्दशदिनैर्विनिवृत्तयोगः, बलेन निष्ठितकृतिर्जिनवर्द्धमानः । शेषा विधूतघनकर्मनिबद्धपाशा, मासेन ते यतिवरास्त्वभवन् वियोगाः॥१॥' अत्रायमभिप्रायः कालनियमोऽयं योगत्यागस्य विहाराभावरूपो वा धर्मोपदेशरूपाभावो वा बादरकाय| योगाद्यभावरूपो वा ? नायद्वितीयौ, सर्वदा तत्कारणाभावात् प्रागेव तत्प्रसिद्धेः, न हि केवली सर्वदा विहरति उपदिशति वा, न | २ऋषभो बासुपूज्यश्च, नेमिः पर्यकयोगतः । कायोत्सर्गस्थिवानां तु, सिद्धिः शेषजिनेशिनाम् ॥ १॥ इति निर्वाणभक्तिस्तवे । KUAARSANA कहकर ॥१३८॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy