________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोध ॥१३६॥
वाणी
विहतिः स्यात् । साक्षर एव च वर्णसमूहान् , नैव विनाऽर्थगतिर्जगति स्या ॥१॥ दिति । किंच-वऋचालनाद्यभावोऽपि कथं सिद्धः केवलिनो अनक्षरात्मकत्वाद्वाच इति चेत्, तदपि कथं सिद्धं ? वक्रचालनाद्यभावादित्यन्योऽन्याश्रयोऽपि, अथ वक्रचालनाद्यभावस्य 'जो अडोल पर्यकमुद्राधारी'त्यादि बादरकाययोगाभावात् सिद्धर्नान्योऽन्याश्रय इति चेत् , बादरमनोयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बनोऽन्तर्मुहूर्तशेषायुर्वेद्यनामगोत्रः सूक्ष्मक्रियाप्रतिपातिभाग् भवतीति भावप्राभृते “बारसविह तव चरण मिति गाथाव्याख्यायां, तथा प्रथमं शुक्लध्यानं पृथक्त्त्ववितर्कवीचारं उपशान्तकपायेऽस्ति, क्षीणकषायस्यादावस्ति, तत् | शुक्लतरलेश्याबलाद् ध्यानमन्तर्मुहूर्त्तकालपरिवर्तनं, द्वितीयमेकत्ववितर्कावीचारं ध्यानमेकयोगेनार्थगुणपर्यायष्वन्यतमस्मिन्नवस्थानं, । ईदृशे शुक्लध्याने घातित्रयविनाशे केवली जायते, स यदाऽन्तर्मुहूर्तशेषायुष्कः समस्थितिवेद्यनामगोत्रश्च भवति तदा बादरकाययोगे | स्थित्वा क्रमेण बादरमनोवचनोच्छ्वासनिश्वासं बादरकाययोगं च निरुध्य ततः सूक्ष्मकाययोगे स्थित्वा क्रमेण सूक्ष्ममनोवचनो
च्छ्वास निरुध्य सूक्ष्मकाययोगः स्यात् , तस्य सूक्ष्मक्रिया प्रतिपाति तृतीय शुक्लं, ततः परमशुक्लं प्रारभते, तत्र सर्वाश्रवनिरोध इति, | भावनासंग्रहे स्फुटमन्तर्मुहूर्तशेषायुष एव बादरकाययोगग्रहाणप्रतिपादनात् ततः पूर्व बादरकाययोगस्यावश्यं सत्त्वात् , सर्वथा बादरकाययोगाभावे क्रियाभावात् , पूर्व वप्रत्रयाधिरोहः पश्चाद्योजनोच्चकमलोपरि पादन्यासो निर्वाणसमये सम्मेतादिक्षेत्राश्रयणमित्यादि न घटते, न च सम्मेतादिक्षेत्रोपरि आकाश एव तदवस्थानमिति वाच्यं, "पावापुरस्य बहिरुन्नतभूमिदेशे, पद्मोत्पला
॥१३६॥ | 5ऽकुलवतां सरसां हि मध्ये । श्रीवर्द्धमानजिनदेव इति प्रतीतो, निर्वाणमाप भगवान् प्रविधूतपाप्मा ॥१॥" तथा " पद्मवनदीपिकाकुलविविधद्रुमखण्डमण्डिते रम्ये । पावानगरोद्याने व्युत्सर्गेण स्थितः स मुनिः॥२॥ इत्यादिना क्रियाकलापवृत्तौ विविच्या
RAMATLAB
For Private and Personal Use Only