________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सामान्येनैव न तु चरमाऽचरमावर्तभेदमपेक्ष्य पञ्चधापञ्चमिः प्रकारैः, विषादिकं विषगरादिभेदमनुष्ठानं प्रस्तुतमेव विचारे पर्यालोचने अत्रैवाऽस्मिन्नेव योगमते पतञ्जलिप्रभृतिभिः योगिभिः इदमेव दर्शयति
1194811
विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादि विधानतः ॥ १५५॥
विषमिव
गरः
विषं-स्थावरजङ्गमभेदभिन्नम् ततो विषम्, एवं गरोऽपि योजनीयः परं द्रव्यसंयोगजो विषविशेषः, अननुष्ठानंअननुष्ठानाभासम्, तथा तद्धेतुरनुष्ठानहेतुः अमृतमिवामृतममरणहेतुत्वात् परं-प्रकृष्टं, गुवादिपूजानुष्ठानम् प्रकृतमेव वर्तते । कुत इत्याह अपेक्षादि विधानतः अपेक्षाया इहलोपरलोक फलस्पृहानुरूपाया आदि शब्दादनाभोगादेश्च यद्विधानं विशेषस्तस्मात् || १५५ ।।
-
कु
-
विषादित्वमेव भावयन्नाह
विषं लब्ध्याद्यपेक्षात इदं सच्चितमारणात् महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा ॥ १५६॥ विषं लब्ध्याद्यपेक्षातो-लब्धिकीर्त्यादिस्पृहा
लक्षणायाः सकाशात्, इदमनुष्ठानं वर्तते । कुत इत्याह सच्चित्तमारणात् परिशुद्धान्तः करणपरिणामविनाशनात् महतोऽनुष्ठानस्य अल्पार्थनाद् अतितुच्छब्ध्यादि स्पृहणात्सकाशात् लघुत्वापादनं लघुभावाधानं तस्मात् । ' तथा ' इति हेत्वन्तरभावनार्थः । ज्ञेयमिदं विषमिति । १५६ || दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् ॥१५७॥
दिव्यभोगाभिलाषेण - ऐहिकभोगनिःस्पृहस्य स्वर्ग स्थानभवभोगाभिष्वङ्गरूपेण गरमनुष्ठानम् आहुर्मनीषिणो मतिमन्तः एतद्देवादिपूजाद्यनुष्ठानम् 'विहितनीत्यैव' सच्चितमारणादिरूपयैव, परंकालान्तरनिपातनात्कालान्तरे भवभवान्तररूपेऽनर्थ
-
૧૪
सम्पादनाद् आत्मनः किल विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यस्तमिति ॥ १५७ ॥ अनाभोगवतश्चैतदननुष्ठानमुच्यते ।
सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् ॥१५८॥
Acharya Shri Kailassagarsuri Gyanmandir
अनाभोगवतश्च इहलोकपरलोकयोरपि संमूर्छनजतुल्यप्रवृत्तितया क्वचिदप्रणिहितमनसः पुनः पुंसः 'एतद्' गुरूदेवपूजाद्यनुष्ठानं तथाविधसमुदयादिवशाद्विधीयमानमपि अननुष्ठानमुच्यते अनुष्ठानमेव न भवतीत्यर्थः । कुत एतदित्याह 'सम्प्रमुग्धं सं इति सर्वतः प्रकर्षेण मुग्धं सन्निपातोपहतस्येव मोहमनध्यवसायमात्ररूपमापन्नं मनः-अन्तःकरणं अस्य - अनाभोगवतः 'इति' पादपरिसमाप्तौ । यत एवं 'ततश्च मनः सम्प्रमोहादेव हेतोः एतप्रागुक्तम् 'यथोदितं ' यथा निरूपितं तथैवेति ॥ १५८ ॥
1
एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ॥ १५९ ॥
एतद्रागात्-सदनुष्ठानभावबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम् हेतुः कारणम् श्रेष्ठोऽवन्ध्यो वर्तते एतद्योगविदो विदुःजानते, कस्य हेतुरित्याह 'सदनुष्ठानभावस्य'तात्त्विकदेवपूजाद्याचार परिणामस्य । कुत इत्याह 'शुभभावांशयोगतः' मुक्त्यद्वेषेण मनाग्मुक्तयनुरागेण वा शुभभावलेशसङ्गमात् ।। १५९ ।। जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ॥ १६० ॥
जिनोदितं - जिननिरूपितं ' इति तु' अनेनैवाभिप्रायेण विधीयमानं आहुर्बुवते 'भावसारं' शुद्धश्रद्धाप्रधानम् । अदोऽनुष्ठानं पुनः तथा संवेगगर्भमन्तःप्रवेशितनिर्वाणाभिलाषम् अत्यन्तमतीव अमृतममरणहेतुत्वादमृतसंज्ञम् 'मुनिपुङ्गवाः ' गौतमादिमहामुनय इति ।। १६० ।।
For Private and Personal Use Only