________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकामुक्तानां शरीरपरिग्रहस्तु वसन्तोत्सववेषपरिग्रहादिवत्स्वामिनः कैंकर्यमेव । ईश्वरशरीरस्य पाड्गुण्यमिति व्यवहारः। षाड्गुण्यप्रकाशकत्वात् । नित्यनिरवयंनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनमार्दवार्जवादयो दिव्यमङ्गलविग्रहगुणाः । तस्य व्यापकत्वं गीतादिषु प्रसिद्धम् । मुक्तस्य शरीरं नास्तीति वचनं तु कर्मकृतशरीराभावपरम् । तत्रत्येन्द्रियाणां नित्यत्वात् । अत एव कार्यकारणभावाभावात्माकृतवन्न तत्वान्तरव्यपदेशः । एतेन तत्र शरीरादिकं नास्तीति मतनिरासः । तमसः परस्तादित्युक्त्या प्रकृत्येकदेशपादिमतानिरासः । अप्राकृतशब्दस्पर्शरूपरसगन्धाश्रयत्वादाकाशादिव्यावृत्तिः। ज्ञानात्मकत्वप्रतिपादनाजमिति मतनिरासः।
भगवतोऽप्राकृतदिव्यमङ्गलविग्रहस्त्वस्त्रभूषणाध्यायोक्तसर्वोपाश्रयः । तद्यथापुरुषस्य कौस्तुभाकारत्वम् । प्रकृतेः श्रीवत्सरूपत्वम् । महतो गदारूपत्वम् ।
कैंकर्यमेवेति । नित्यमुक्तानां शरीरादिपरिग्रहो भगवदभिमततककर्यरूपभोगाय भगवतोऽपि स्वभोगाय स्वशेषभूतनित्यमुक्तानन्दनाय मुमुक्षपास्यत्वसिद्धये चेस्युक्त. स्वात् । तत्र भगवतः स्वसंकल्पादेव शरीरादिपरिग्रहः । नित्यमुक्तानां तु कदाचित्परमपुरुषमात्रसंकल्पात्कदाचित्परमपुरुषसंकल्पानुविधायिस्वसंकल्पाञ्चेति भावः । ज्ञाना. स्मकत्वेति । ज्ञानात्मकत्वं चात्र स्वयंप्रकाशत्वमेवेति न्यायसिद्धाञ्जनम् । अनभूषणाध्यायति । तत्र ह्येतदुक्तम्
आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुममणिस्वरूपं भगवान्हरिः ।। श्रीवत्ससंस्थानधरमनन्ते च समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ भूतादिमिन्द्रियादिं च द्विधाऽहंकारमीश्वरः । विभर्ति शङ्खरूपेण शारूपेण संस्थितम् ।। चलस्वरूपमत्यन्तजवेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥ पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघातो भूतमाला च वै द्विज ॥
१ ख. प्रहादिस्तु । २ ख. °द्यनिर्दोषनिर । ३ क. ख. प्रहा गु। ४ घ. रेन्द्रियादि। ५५. 'डत्वम । ६ महतो इत्यारभ्य चक्रत्वम् इत्यन्तः पाठः क. पुस्तके न दृश्यते ।
For Private And Personal Use Only