________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकाश्रीमनारायण एव चिदचिद्विशिष्टाद्वैततत्त्वं भक्तिप्रपत्तिभ्यां प्रसन्ना स एवोपायोऽप्राकृतदेशविशिष्टः स एव प्राप्य इति वेदान्तवाक्यैः प्रतिपाद. यता व्यासबोधायनगुहदेवभारुचिब्रह्मानन्दिद्रविडार्यश्रीपराङ्कुशनाथयामुनमुनियतीश्वरप्रभृतीनां मतानुसारेण बालबोधार्थ वेदान्तानुसारिणी यति पतिमतदीपिकारच्या शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथामति संग्रहेण प्रकाश्यते । ___ सर्व पदार्थजातं प्रमाणप्रमेयभेदेन द्विधा भिन्नम् । प्रमाणानि त्रीण्येव । प्रमेयं द्विविधम् । द्रव्याद्रव्यभेदात् । द्रव्यं द्विविधम् । जडमजडमिति । जडं च द्विधा। प्रकृतिः कालश्चेति । प्रकृतिश्चतुर्विश्चतितत्त्वात्मिका । कालस्तूपाधिभेदात्त्रिविधः।
अपाकृतेति । अप्राकृतदेशश्च वैकुण्ठलोकः। प्रकाश्यत इति ।
दशावतारा ग्रन्थेऽस्मिन्ग्रन्थकारेण निर्मिताः । प्रमाणत्रितयद्रव्यषट्काद्रव्यविभागतः ॥ १ ॥ प्रमाणं प्रथमे प्रोक्तं प्रत्यक्षं स्मरणं तथा । द्वितीयेऽनुमितिव्याप्तिहेत्वाभासा निरूपिताः ॥ २ ॥ तृतीये प्रमितिः शाब्दी चतुर्थे द्रव्यलक्षणम् । चतुर्विशतितत्त्वानामुत्पत्तिश्चैव वर्णिता ॥ ३ ॥ पश्चमे लक्षितः कालस्तद्भेदा अप्युपाधितः । नित्या विभूतिः षष्ठे तु सप्तमे बुद्धिलक्षणम् ॥ ४ ॥ अष्टमे वर्णितं जीवस्वरूपं तहणा अपि । अवतारे तु नवमे परमात्मनिरूपणम् ॥ ५ ॥ अद्रव्यं दशधा प्रोक्तमवतारे तथाऽन्तिमे ।
एवं दशावतारेषु पदार्था वर्णिताः क्रमात् ॥ ६ ॥ श्रीण्येवेति । प्रत्यक्षानुमानशब्दरूपाणि त्रीण्यवेत्यर्थः । इतरेषामेष्वेवान्तर्भाव वक्ष्यति । चतुर्विशतितत्त्वेति । प्रकृतिमहदहङ्कारमनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवा.
पाणिपादपायूपस्थशब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्राकाशवायुतेजोप्पृथिवीरूपाणि चतुर्विंशतितत्त्वानि । उपाधिभेदात् । वर्तमानभूतभविष्यरूपोपाधिभेदात् ।
१ घ. शत्यात्मि।
For Private And Personal Use Only