________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीः ॐ तत्सद्ब्रह्मणे नमः। अथ यतीन्द्रमतदीपिका
प्रकाशसहिता।
श्रीवेङ्कटेशं करिशैलनाथं श्रीदेवराज घटिकाद्रिसिंहम् । कृष्णेन साकं यतिराजमीडे स्वमेऽद्य दृष्टान्मम देशिकेन्द्रान् ॥ १ ॥
यतीश्वरं प्रणम्याहं वेदान्तार्य महागुरुम् । करोमि बालबोधार्थ यतीन्द्रमतदीपिकाम् ॥ २॥
यतीन्द्रमतदीपिका प्रकाशः। प्रणम्य परमात्मानं विश्वेशं सर्वसाक्षिणम् । संयुनज्मि प्रकाशेन यतीन्द्रमतदीपिकाम् ॥ १ ॥ दीपिकाऽपि विषयान्न बोधयेन्मन्दबुद्धितिमिरावगुण्ठितान् । तद्रुनापसरणाय कृतोऽयं यत्न एष तिमिरं विनाशयेत् ॥ २ ॥ न तीक्ष्णधिषणो न च प्रथितगूढशास्त्रार्थवित् तथाऽपि मुहुरुत्सुको गुरुकृपावलम्बी परम् ।। अशेषजगदाश्रयं परमपुरुषं चिन्तयन् यतीन्द्रमतदीपिका विवृणुयामिति प्रार्थये ॥ ३ ॥ मत्कृतिरियमिति नार्हति संग्रहमेषेति पण्डितैर्मान्यैः । न स्वान्ते करणीयं नात्रापूर्व विलिख्यते किंचित् ॥ ४ ॥ श्रीभाष्यादिनिबन्धान्दृष्ट्वा प्रायस्तदीयसिद्धान्तान् । तत्तत्प्रसङ्गवशतो विशदीकर्तुं यथामति प्रयते ॥ ५ ॥ तत्रापि यदि भवेयुर्दोषाश्चेतोवधानवैधुर्यात् ।
आलम्ब्यौदासीन्यं स्वी कुर्वन्तु प्रकाशममुमार्याः ॥ ६ ॥ ग्रन्थारम्भे कृतं गङ्गलं शिष्यशिक्षार्थं निबध्नाति-श्रीवेङ्कटेशमिति ।
१ प. ने च
।
For Private And Personal Use Only