________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केचन यज्ञदिदृक्षवश्चाभिसंगता बभूवुः । अथ मिलितं विद्वत्समाजमालोच्य यियक्षमाणस्य जनकस्य जिज्ञासा बभूव किल कोनु खल्वत्रानूचानतमो ब्रह्मिष्ठ इति । सच गवां सहस्रं रुहोवाच हे भगवन्तः, यो वो ब्रह्मिष्ठः स एता गा उत्कालयतु खगृहंप्रतीति । तदैते ब्राह्मणा न दधृषुः । अथ याज्ञवल्क्यो निजमन्तेवासिनमुवाच हे सौम्य, उत्कालयेमा गा अस्मद्गृहान्प्रतीति । एतच्छ्रुत्वा सचोत्कालितवानाचार्यगृह प्रतीत्याख्यायिकायामखिलविप्रसमाजापमाननमभवत् ।।
अथ कदाचन वैशंपायनस्य ब्रह्महत्यादोष उदभूत् । तदंहोनिबर्हणाय वैशंपायनः खच्छात्रान् ब्रह्महत्यामार्जनक्षम व्रतमादिदेश । तदानीं याज्ञवल्क्यः प्रोवाच भगवन् , श्रीमदुक्तं व्रतं सुदुश्चरमप्यहमेवाचरिष्ये किमल्पसाराणामेतेषामादेशेनेति । तदिदं विप्रावमानकारकं याज्ञवल्क्योक्तं श्रुत्वा वैशंपायनश्चक्रोध । आहच याज्ञवल्क्यं ब्राह्मणावमन्ता त्वमसि अतो मत्तो यदधीतं तत्सर्वं त्यक्त्वा याहीति । तदसहिष्णुर्याज्ञवल्क्योऽधीतं यजुर्वेदगणं छर्दित्वा गुरुमुत्सृज्यागच्छत् । आरराधच भगवन्तं सूर्यनारायणमेकान्तभावेन । निःसीमनिजपरिचरणपरितुष्टो भगवानादित्योऽयातयामानि यजूषि तस्मै प्रायच्छत् । तैर्याज्ञवल्क्यो वाजसनीसंज्ञाः शाखा अकरोत् इति श्रीभागवते। विज्ञानेश्वरविषये मिताक्षरोपसंहारे-- 'नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुतएव वा क्षितिपतिः श्रीविक्रमार्कोपमः। विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम
श्चाकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥ स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीनां
दातार्थानामतिशयजुषामर्थिसार्थार्थनामा । आ च प्राचः समुद्रान्नतनृपतिशिरोरत्नभाभासुराभिः
पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः॥' इत्यादिलेखादस्य नृपविक्रमादित्यकालीनत्वं स्फुटं भवति । तत्र कल्याणपुरमितिनाम्ना प्रसिद्धं नगरमस्त्यधुना हैदराबादराज्ये कल्याणकीर्तिनाम्ना प्रथितम् । तत्रत्या राजानश्चौलुक्यान्ववायाः । तेषां वंशावलिदक्षिणेतिहासाख्यकोशे भाण्डारकरोपाढे रामकृष्ण गोपालसंज्ञया प्रथितैः सविस्तरं प्रकाशितास्ति । तत्रैव विक्रमादित्यराजा समजनि यदाश्रयेणैव विदुषामग्रेसरेण विज्ञानेश्वरेण मिताक्षराख्या याज्ञवल्क्यस्मृतिव्याख्या निरमायि। तस्य च राज्यकालो यूनसहस्रशाकमारभ्य ड्यूनपञ्चाशदधिकसहसमितशकपर्यन्तं पञ्चाशदब्दमित एवासीत् । एवंसति गुर्जराङ्कितयाज्ञवल्क्यस्मृतिप्रस्तावे बापूशास्त्रीमोघे इत्येतैः "विक्रमादित्यकालीनोयं विज्ञानेश्वरः तद्न्थस्य मिताक्षराख्यस्य संवदभिधशकप्रवर्तकविक्रमादित्यदेवकालिकतावसीयते'इत्यादिप्रकटितं परास्तम् ।
यद्यप्ययं प्रन्थो बहुभिर्बहुवारमङ्कनादिना प्रकाशितएवासीत्तथापि तेष्वनवधानालस्याव्युपत्त्यादिमूलका नैकशो मूले व्याख्यायां च तत्रतत्रानवसरविराम-विरामस्थ
विपताना
For Private And Personal Use Only