________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
यर्थम् । यथाह वसिष्ठः-'स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥' इति । अत्रच दाक्षायणीति सामान्याभिधानेऽपि कुण्डलधारणमेव कार्यम् । – 'वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्। यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥' इति (४।३६) मनुस्मरणात् । तथा देवं देवता , मृदं तीर्थादुद्धृतां, गां, ब्राह्मणं, वनस्पतींश्चाश्वत्थादीन्प्रदक्षिणं कुर्यात् । एतान्दक्षिणतः कृत्वा प्रबजेदित्यर्थः । एवं चतुष्पथादीनपि
-'मृदं गां देवतां विप्रं धृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥' इति (३९) मनुस्मरणात् ॥ १३३ ॥
न तु मेहेन्नदीछायावम॑गोष्ठाम्बुभससु ।
न प्रत्यम्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १३४ ॥ नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्ग कुर्यात् । एवं श्मशानादावपि । यथाह शङ्ख:-'न गोमयकृष्टोप्तशाद्वलचितिश्मशानवल्मीकमखलगोष्ठबिलपर्वतपुलिनेषु मेहेत भूताधारत्वात्' इति । तथान्यादीन्प्रति अन्यादीनामभिमुखं न मेहेत् । नाप्येतान्पश्यन् । यथाह गौतमः-'न वायवग्निविप्रादित्यापोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्यान्युदस्येनैतान्प्रति पादौ प्रसारयेत्'इति । एतद्देशव्य. तिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मंत्रपुरीषे कुर्यादिति । यथाह वसिष्ठः'परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्' इति ॥ १३४ ॥
नेक्षेतार्क न ननां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः॥ १३५ ॥ नैवार्कमीक्षेतेति यद्यप्यत्र सामान्येनोक्तं तथाप्युदयास्तमयराहुग्रस्तोदकप्रतिबिम्बमध्याह्नवर्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा । यथोक्तं मनुना (४॥३७)-'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नानां स्त्रियं नेक्षेत । 'न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात्' इत्याश्वलायनः। संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्तेऽननामपि नेक्षेत । चकारागोजनादिकमाचरन्तीम् । तथाच मनुः (१४३)'नाश्नीयाद्भार्यया साधं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां च न चांसीनां यथासुखम् ॥ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्ती च श्रेयस्कामो द्विजोत्तमः ॥' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्--'न चोदके निरीक्षेत स्वं रूपमिति धारणा' इति वचनात् ॥ १३५ ॥
अयं मे वज्र इत्येवं सर्व मत्रमुदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ।। १३६॥ १ एवं देवं क. २ प्रदक्षिणतः ख. ३ प्रत्यर्काग्निनो क. ४ श्मशानवल्मीक क. ५ नैता देवताः प्रति ख. ६ मेहनं कार्य क. ग.
For Private And Personal Use Only