________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः मशक्यत्वात् । अत एतावदन विवक्षितं-असन्तः प्रतिलोमजाः सन्तश्चानुलोमजा ज्ञातव्या इति ॥ ९५॥
सवर्णेभ्यः सवर्णासु जायन्त इत्यादिना वर्णप्राप्ती कारणमुक्तम्' इदानी कारणान्तरमाह
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ ९६ ॥ जातयो मूर्धावसिक्ताथास्तासामुत्कर्षों ब्राह्मणत्वादिजातिप्राप्तिर्जात्युस्कर्षों युगे जन्मनि सप्तमे पञ्चमे अपिशब्दाषष्ठे वा बोद्धव्यः । व्यवस्थितश्चायं विकल्पः । व्यवस्था च-ब्राह्मणेन शूद्रायामुत्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं कांचिजनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्यनेन प्रकारेण षष्ठी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्या यामुत्पादिता अम्बष्ठा । साप्यनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति । मूर्धावसिक्काप्यनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणमेव जनयति । एवमुना क्षत्रियेणोढा माहिष्या च यथाक्रमं षष्ठं पञ्चमं च क्षत्रियं जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यामित्येवमन्यत्राप्यूहनीयम् । किंच कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुख्यया वृत्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः । तेनाप्यजीवन वैश्यवृत्त्या तयाप्यजीवन् शूद्रवृत्या । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाजीवन् वैश्यवृत्या शुद्धवृत्या वा । वैश्योपि स्ववृत्त्या अजीवन् शूदवृत्त्येति कर्मणां व्यत्ययः। तस्मिन्व्यत्यये सति यद्यापद्विमोक्षेऽपि तां वृतिं न परित्यजति तदा सप्तमे षष्ठे पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातित्वं भवति । तद्यथा। ब्राह्मणः शूद्रवृत्या जीवस्तामपरित्यजन् यदि पुत्रमुत्पादयति सोपि तयैव वृत्त्या जीवनपुत्रान्तरमित्येवं परम्परया सप्तमे जन्मनि शूद्रमेव जनयति । वैश्यवृत्त्या जीवन षष्ठे वैश्यम् । क्षत्रियवृत्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्भवृत्त्या जीवन् षष्ठे शूद्रम् । वैश्यवृत्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्रवृपया जीवंस्तामपरित्यजन्पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जनयतीति । पूर्ववचाधरोत्तरम् । अस्यार्थः-वर्णसंकरे अनुलोमजाः प्रतिलोमजाश्च दर्शिताः। संकीर्णसंकरजाताश्च रथकारनिदर्शनेन दर्शिताः । इदानीं वर्णसंकीर्णसंकरजाताः प्रदर्श्यन्ते । अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावसिक्तायां क्षत्रियवैश्यशूद्वैरुत्पादितस्तथाम्बष्ठायां वैश्यशूद्राभ्यां निषायां शूद्रेणोस्पादिता अधराः प्रतिलोमजास्तथा मूर्धावसिक्ताम्बष्ठानिषादीषु ब्राह्मणेनोत्पादिताः, माहिष्योग्रयोाह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन
- १ पञ्चमे सप्तमेपि ख. २ सप्तमं क. ३ ब्राह्मणवृत्त्या ग. ४ पञ्चमे षष्ठे सप्तमे ख. ५ पुनरप्येवं ख. ६ वर्णसंकरजाताः ख.
For Private And Personal Use Only