________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[आचाराध्यायः
चितिं समारुह्य न विप्रा गन्तुमर्हति' इति विशेष स्मरणात् । अनेन क्षत्रियादिस्त्रीणां पृथकचित्यभ्यनुज्ञा गम्यते । यत्तु कैश्चिदुक्तं पुरुषाणामिव स्त्रीणाम. ध्यात्महननस्य प्रतिषिद्धत्वादतिप्रवृद्धवर्गाभिलाषायाः प्रतिषेधशास्त्रमतिकामन्या अयमनुगमनोपदेशः श्येनवत् । यथा 'श्येनेनाभिचरन्यजेत' इति तीव. क्रोधाकान्तस्वान्तस्य प्रतिषेधेशास्त्रमतिकामतः श्येनोपदेश इति । तदयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पर्शाभावेन प्रतिषेधसंस्पर्शात्फलद्वारेण श्येनस्थानर्थतां वर्णयन्ति तेषां मते हिंसाया एवं स्वर्गार्थतया अनुगमनशास्त्रेण विधीयमानत्वाप्रतिषेधसंस्पर्शाभावादग्नीषोमीयव. स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । यत्तु मतं हिंसानाम मरणानुकूलो व्यापारः, श्येनश्च परमरणानुकूलव्यापाररूपत्वाद्धिसैव, कामाधिकारे च करणांशे रागतः प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात् । रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर इति, तत्राप्यनुगमनशास्त्रेण मरणस्यैव स्वर्गसाधनतया विधानान्मरणे यद्यपि रागतः प्रवृत्तिस्तस्थापि मरणानुकूले व्यापारेऽग्निप्रवेशादावितिकर्तव्यतारूपे विधित एवं प्रवृत्तिरिति न निषेधस्थावकाशः 'वायव्यं श्वेतमालभेत भूतिकामः' इतिवत् तस्मात्स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । यत्तु तस्मादुह न पुरायुषः स्वःकामी प्रेयात्' इति श्रुतिविरोधादनुगमनमयुक्तमिति । यच्च 'तदुह न स्वःकाम्यायुषः प्राङ् न प्रेयात्' इति स्वर्गफलोद्देशेनायुषः प्रागायुर्व्ययो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानापितान्तःकरणकलङ्कस्य श्रवणमनन निदिध्यासनसंपत्तौ सत्यमात्मज्ञानेन निरतिशयानम्दब्रह्मप्राप्तिलक्षणमोक्षसंभवः । तस्मादनित्यापसुखरूपस्वार्थमायुययो न कर्तव्य इत्यर्थः । अतश्च मोक्षमनिच्छन्त्या अनित्यापसुखरूपवर्गार्थिन्या अनुगमनं युक्तमितरकाम्यानुष्ठानवदिति सर्वमनवधम् ॥ ८६ ॥
पतिप्रियहिते युक्ता वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ ८७॥ किंच । प्रियमनवद्यत्वेन मनसोऽनुकूलम्, आयत्यां यच्छ्रेयस्करं तद्धितं । प्रियं च तद्धितं च प्रियहितं । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारो यस्याः सा तथोक्ता । शोभनश्चाचारो दर्शितः शङ्खन-'नानुक्त्वा गृहानिर्गच्छेशानुत्तरीया न त्वरितं ब्रजेन परपुरुषममिभाबेतान्यत्र वणिक्प्रव्रजितवृद्धवैयेभ्यो न नाभिं दर्शयेदागुल्फाद्वासः परिदध्यान खनौ विवृतौ कुर्यान हसेदप्रावृता भर्तारं तद्वन्धून्वा न द्विष्यान गणिकाधूर्ता भिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्ठेसंसर्गेण हि कुलस्त्रीणां चारित्रं दुष्यति' इति । विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोन्नादीनि वागादीनि च मनःसहितानि यया सी इह
. १ विशेषोपादानात् क. २ प्रतिषिद्धशास्त्र. ग. ३ कर्तव्यतानुरूपं. ख. ४ स्वर्गकामः. ५ प्रेयादिति ख. ६ क्षालितान्तःकरणं. ख. ७ हि चरित्रं क.८ सा तथोक्ता इह क..
For Private And Personal Use Only